SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ १५ सर्गः] हीरसौभाग्यम् । ७५७ हारिद्रवर्णः । मघोनः किंभूतस्य । दशशतानि सहस्र नयनानि नेत्राणि यस्य । पुनः किं. • भूतसा । अध्याश्रितः खकीयारोहेण पृठे प्रतिष्ठा प्रापितः खःकरेणुरैरावणो येन । एतावता अभ्रमूवल्लभारूढः । पुनः किंभूतस्य । कलिता धृता कनकवत्वर्णस्येव कान्तिदेहातिः शोभा वा येन । 'चम्पकोऽस्मिन्सपुष्पः' इति पाठे अस्मिन् शत्रुजये सपुष्पः स्मेरत्प्रसूनपरिचितश्चम्पकद्रुमः ॥ अपि धृतसुरसिन्धु गरङ्गी सदुर्गः सवृषमुषितकालः केकियानं दधानः । धृतशशधरचूडो नीरमुङ्गीलकण्ठः शिव इव घनयानो भाति मृत्युंजयादिः ॥ १७ ॥ अदिः शत्रुजयशैलः शिव ईश्वर इव भाति । किंभूतः । धृता कलिताः सुरा विविधस्थानस्थातारोऽनेककपर्दियक्षप्रमुखा अधिष्ठातारो देवाः, तथा सिन्धवः शत्रुजयाऐन्द्री-साभ्रमती-ब्राह्मी-प्रमुखाश्चतुर्दश महानद्यो येन । शिवस्तु श्रितदेवनदीको गङ्गाध. रत्वात् । पुनः किंभूतः । नागरगा वृक्षविशेषा 'नारङ्गा' इति लोके प्रसिद्धाः सन्त्यस्मिन् । पक्षे नागेषु भुजंगमेषु विषये रङ्गः स्नेहोऽस्त्वस्येति । 'पाणौ फणीन् भजति कङ्कणभूय. मैशे सोऽयं मनोहरमणीरमणीयमुच्चैः । कोटीरबन्धनधनुर्गुणयोगपदृव्यापारपारगम, भज भूतभर्तुः ॥' इति नैषधे । पुनः किंभूतः। सह दुगैर्विषमस्थानकैः कोर्टेर्वा वर्तते यः। पक्षे पार्वतीयुक्तः अर्धाङ्गत्वात् । पुनः किंभूतः । सह वृषेण धर्मेण । 'पुण्यराशिः श्रिय-' इत्यभिधानत्वात् । पक्षे वृषभेण वाहनबलीवर्देन वर्तते यः । तथा मुषितो निर्दलितः काल: कलियमो वा अजरामरपददायकत्वात् । पक्षे कालनामा दैत्यो येन । पुनः किंभूतः। केकिनां मयूराणां यानमितस्ततो गमनम् । पक्षे स्वामिकार्तिकं च दधानः। पुनः किंभूतः। धृतः कलिंतः शशधरश्चन्द्रो यया तादृशी चूडा शिखरशिखा अभ्रंकषत्वात् म. स्तकोपरितनभागश्च येन । पुनः किंभूतः । नीरमुचा मेघेन तद्वच्च नोल: कृष्णः कण्ठः • कंधरा गलनालं यस्य । 'दधदम्बुदनीलकण्ठताम्' इति नैषधे राजगृहवर्णनम् । अम्बु देन मेघेन नीलः कण्ठः उपत्यकाभागो ग्रीवा चेति उपत्यकायाः कंधरेति प्रतिपादनम् । . 'यदने ककसौधकंधराहरिभिः कुक्षिगदीकृता इव' इत्यपि नैषधे । पुनः किंभूतः । घ'नानां मेघानां यानानि गमनानि संचारा यत्र । पक्षे धनवाहन इत्यभिधानः । यानशब्देन वाहनम् । पुनः किंभूतः । मृत्युं मरणं यमं जयतीति मृत्युंजयो जन्मजरामरणापहारकः सिद्धिदातृत्वात् । पक्षे मृत्युंजयो नाम्ना ॥ स्वकशिखरशिखाङ्कस्थायुकान्स्वैकताना कमलमृदुलदेहांस्तापितांस्तापनेन । सुखयितुमिव शैत्यैः सिद्धशैलोऽङ्गभाजो बहलजलमुचोचैरातपत्रं तनोति ॥ १८ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy