________________
१९ सर्गः] हीरसौभाग्यम् ।
निखिलभुवनभारोद्धारनिवेदनाजा
भुजगपरिवृढेनानेकविज्ञप्तिकाभिः ।। भरभरणधुरीणोऽशेषनीरेशनमः
किमयमिह महीध्रः कारितो विश्वका ॥९॥ भुजगानां नागानां परिवृढेन स्वामिना शेषनागेन अनेकाभिर्विविधप्रकाराभिर्विज्ञप्तिकाभिरश्चलप्रसारेण दीनतादर्शनमुखाकुलोप्रेक्षणचटुभाषणप्रमुखविज्ञपनैः कृत्वा । उत्प्रेक्ष्यते-विश्वका जगन्निष्पादकेन धात्रा पार्श्वे इह जगति पृथिव्या अयं महीधः एष शत्रुजयादिः । किं कारितः । निर्मापित इव । किंभूतेन । निखिलस्य समप्रस्य भुवनस्य भूलोकस्य भारो वीवधस्तस्योद्धारेणोद्वहनेन कृत्वा निर्वेदं मनसि विषादं खेदं वा भजतीति तेन । अयं किंभूतः । अशेषायाः समस्ताया नीराणां जलानामीशः खामी समुद्रः । 'स्रोतोवानंदीशः सरखान्' इति हैम्याम् । नेमिश्चक्रधारावद्यस्याः परिधीभूतो यस्या. स्तादृश्याश्चतुरर्णवपर्यन्तपृथिव्या भरस्य भरणे धारणे । 'डभृञ् धारणपोषणयोः' इत्यस्य प्रयोगः । धुरीणौ धुर्यो धौरेयः॥
सुरपथपथिकैतत्प्रस्थसंस्थानभोगाः . शशभृदपरभागं प्रेक्ष्य साक्षान्निरङ्कम् । किमयमिदमुपास्ते नित्यमभ्येत्य कुर्व
बजनि विगतलक्ष्मेत्यन्तरध्याहरन्ति ॥ १० ॥ सुरपथस्याकाशस्य पथिकेषु पान्थेषु । अभ्रंकषेवित्यर्थः । एतस्य शजयाद्रेः प्रस्थेषु भृशेषु संतिष्ठन्ते इति संस्थाः । क्विबन्तः । तिष्ठन्तीत्यर्थः । नभस्याकाशे गच्छन्तीति नभोगाः सिद्धगन्धर्वविद्याधरसुराः अन्तश्चित्तमध्ये इत्यमुना प्रकारेणाध्याहरन्ति विचारयन्ति । किं कृत्वा। निर्गतोऽङ्कः कलङ्को यस्मात्स निरकस्तं लाञ्छनरहितं शशभृतश्चन्द्रस्यापरभागं यस्मिन्नधस्तने भागे लाञ्छनं लक्ष्यते तस्मादन्यम् । उपरितनभागमित्यर्थः । साक्षात्प्रत्यक्षेण प्रेक्ष्य व्यालोक्य । एतावता चन्द्रलोकादप्युञ्चतमानि भृङ्गाणि तेषूपविष्टा नभोगाश्चन्द्रस्योपरितनं भागं दृशा व्यालोक्य वितर्कयन्ति । इति किम् । यदयं चन्द्रो नियं सदा अभ्येयात्रागत्य इदमुपास्ते श्रीशजयाद्रेः सेवां कुर्वन् सन् । उत्प्रेक्ष्यते-विगतं प्रयातं लक्ष्म लाञ्छनं यस्य तादृशः किमजनि संजात इव ॥
भुजगभवनमध्यं व्याप्नुवन्स्थूलमूलै_ दिवमपि शिखरैः स्वैर्भूघनेनापि भूमीम् । इति विमलमहीभृद्भूर्भुवःस्वस्त्रयीं यो
हरिरिव निजपादैः स्वात्मनाक्रम्य तस्थौ ॥ ११ ॥