________________
७५२
काव्यमाला।
चटुलभावं चापलं परित्यज्य विहाय वल्लभस्य खभर्तुः अम्भोधरस्य प्रावृषेप्यपयोदस्य अङ्के उत्सङ्गे । 'चिरविलसनात्खिन्न विद्युत्कलत्रः' इति मेघदूतकाव्यम् । विद्युतो मेघकलत्रत्वमुक्तम् । तथा 'प्रिये मदुत्सङ्गविभूषणं भव' इति नैषधे । वल्लभाया वल्लभस्य कोडे उपवेशनं दृश्यते । निवसन्ती वाल्लभ्येन वितिष्ठमाना तडिद्विद्युदिव ॥
क्वचिदपि कलधौतप्रस्थसंस्थानगाहि
प्रवहदविरलाम्भोनिझरस्फारधारा । तुहिनशिखरिशृङ्गोत्सङ्गरङ्गत्प्रवाह
द्युसदधिपनदीवाद्वैतशोभां बभार ॥ ७ ॥ . क्वचिदपि शत्रुजयशैलस्य कुत्रापि स्थानके कलधौतस्य रजतस्य प्रस्थं शिखरं तदेव संस्थानं सम्यगाश्रयस्तदवगाहन्ते अधितिष्टन्तीत्येवंशीलाः, तथा प्रकर्षेण वहन्ति प्रस-' पन्ति, तथा अविरलानि अविच्छिन्नधाराधोरणानि अम्भांसि जलानि येषु तादृशानां निर्झराणां स्फारा अत्युदारा दृश्यमाना नयनानन्ददायिन्यो धारा महत्प्रमाणाधोनिष्पतत्पयःप्रवाहाः अद्वतामसाधारणां शोभा बभार धत्ते स्म । केव । तुहिनशिखरिणो हिमाचलस्य शृङ्गस्य शिखरस्य उत्सङ्गे कोडे मध्ये वा रङ्गन्प्रसर्पन् प्रवाहो निरन्तरपयःपूरो यस्यास्तादृशी । दिवि सीदन्त्यवतिष्ठन्ते इति घुसदो देवास्तेषामधिपः पुरंदरस्तस्य नदी सरिद्ङ्गेच । यथा देवनदी तथा देवेन्द्रस्यापि नदी । यदुक्तम्-'सुरेन्द्रतटिनीतीरेषु सिद्धाङ्गनाः' इति भोजप्रबन्धे ॥
जलधिभवनजम्भारातिसारङ्गचक्षु-
दिगवनिधरमूर्धालम्बिबिम्बौ दिनादौ । रजतकनकराजत्कर्णपूराविवैत- ..
द्विमलगिरिरमायाः पुष्पदन्तौ विभातः ॥ ८॥ . जलधौ सागरे भवनं गृहं यस्य स वरुणः । 'वरुणस्त्वर्णवमन्दिरप्रचेताः' इति हैम्याम् । जम्भस्य दानवविशेषस्य अरातिः शत्रुरिन्द्रस्तयोः सारङ्गचक्षुषी प्रिये तादृश्यौ दिशौ प्रतीचीप्राच्यौ । 'वरुणगृहिणीमाशामासादयन्तममुं रुची.-,' तथा 'निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित्' इति पदद्वयमपि नैषधे । तयोर्दिशोरवनिधरौ प. र्वतौ अस्ताचलोदयाद्री तयोर्मूर्धानी मस्तकशिखरे आलम्बेते आश्रयेते तादृशौ बिम्बी मण्डलौ ययोस्तादृशौ पुष्पदन्तौ शशिभास्करौ । 'पुष्पदन्तौ पुष्पवन्तावेकोत्तया शशिभास्करौ' इति हैम्याम् । दिनादौ पूर्णिमादिके क्वापि प्रातःकाले विभातः । उत्प्रेक्ष्यतेएतस्य विमलगिरेः शत्रुजयाद्रे रमायाः लक्ष्म्याः रजतेन रूप्येण तथा कनकेन काश्चनेन कृत्वा राजन्तौ रूप्यस्वर्णनिर्माणेन शोभमानौ दीप्यमानौ कर्णपूरौ श्रवणौ पूर्येते आभ्यामिति कुण्डले इव ॥