SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् । १५ सर्गः] यात्रासमागतभरतचक्रवर्तिप्रदत्तापरनामधेयो देवदेश इति तस्य लक्ष्म्याः श्रियः यद्विमलशैलच्छलाच्चारुः सर्वालंकारेभ्यो विशेषभूतश्चूडामणिः शिरःशिखामणिरिव ॥ अमितरजतरत्नस्वर्णशृङ्गैरसंख्या निमिषशिखरिखण्डैः स्वःसदां सद्मभिश्च । त्रिजगदुपरिभूमीलम्भना येन मेरु विजित इव बभूव बीडयानक्षिलक्ष्यः ॥ ५ ॥ येन शत्रुजयगिरिणा विजितः पराभूतः सन् । उत्प्रेक्ष्यते-मेरुः सुवर्णाचलो वी. डया लजया कृत्वा न अक्ष्णोनयनयोलक्ष्यो निरीक्षितुं योग्योऽनक्षिलक्ष्योऽदृश्यो बभूव जायते स्म । क इव । येन । किंभूतेन । त्रिजगतां त्रयाणां पातालभूमिखर्गलक्षणानां भुवनानामुपरिभूमी लोकारवर्तिस्थानं मुक्तिलक्षणं लम्भयति प्रापयति इत्येवंशीलस्तेन । 'सर्वेषामपि शैलानामुन्नतो विमलाचलः । यदारोहेण लोकाग्रं प्राप्यते बालकैरपि ॥' इति पूर्वाचार्यस्तुतिवचनात् । विजितः । कैः कृत्वा । न मीयन्ते प्रमाणीक्रियन्ते खबुद्धया विदग्धरपीत्यमितानि ।गणनातीतानीत्यर्थः। रजतानां रूप्यरत्नानां विविधमणीनां स्वर्णानां काञ्चनानां शृङ्गाणि शिखराणि तैः । पुनर्न विद्यते संख्या गणना मानं येषां तान्यसंख्यानि अनिमिषाणां देवानां शिखरिणां वृक्षाणां खण्डानि काननानि तैः । 'स्यात्ख. ण्डं काननं वनम्' इति हैम्याम् । पुनः स्वःसदा सुराणां सद्मभिर्नगरैर्मन्दिरैश्च । 'गौत्रिदिवमूर्धलोकः सुसलयः' इति हैम्याम् । मेरुस्तु स्वप्रमाणोचप्रदेशे प्रापयति नोपरितनविभागे । तथा मितान्येव शृङ्गाणि बिभर्ति तान्यपि रत्नानामेव रत्नसानुत्वात् । तथा भद्रसालनन्दनसौमनसपाडुकनामानि चत्वार्येव वनानि धत्ते । तथा एकमेव सुरगृहं कलयति । यदुक्तम्-'दिवमङ्कादमराद्रिरागताम्' इति नैषधे । अधः शजयाद्रिणा स्वाभ्यधिकवैभवेन मेरुनिर्जितस्तद्युक्तमेव ॥ शिखरिमणिविनिर्यज्ज्योतिरुज्जृम्भमाणा. अनविपिनविनीले व्योमि यस्याबभासे । अतुलचटुलभावं स्वं परित्यज्य नित्यं तडिदिव निवसन्ती वल्लभाम्भोधराङ्के ॥६॥ उज्जम्भमाणा पुष्पपल्लवादिभिर्विकसितभावं भजन्ते येऽञ्जनाः अञ्जननामानो वृक्षवि. शेषाः । 'केचित्प्रभञ्जना इव पापर्धिकजनाः खण्डिताञ्जनाधरप्रवालाः' इति चम्पूकथायाम् । 'अञ्जना सुन्दरी पत्नी अञ्जनद्रुमश्च । अधरोष्ठपल्लवः अधस्तनकिसलयं च' इति तद्वत्तिः । तेषां विपिनानि तद्वद्विनीले अतिश्यामले व्योनि नभस्तले यस्य शत्रुजयादेः शिखराणामुत्तुङ्गशृङ्गाणां मणिभ्यो रक्तपीतरत्नेभ्यो विनिर्यनिःसरद्दश दिगङ्गणानि व्याप्नुवज्योतिः कान्तिराबभासे शोभते स्म । उत्प्रेक्ष्यते-खमात्मीयमतुलमतिशयितमतिघनं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy