________________
७५०
काव्यमाला।
स्थायुकानामन्तरङ्गाणामित्यर्थः । वैरिणां शत्रुभूतानां परमप्रत्यर्थिनामनर्थकारित्वात् । क्रोधमानमायालोभरागद्वेषरूपाणां षडुर्ग षण्णां वगै देहिनां महादुःखदायित्वात्सर्वेषामपि सादृदयम् । 'वर्गस्तु सदृशाम्' इति हैमीवचनात् । विदलयितुमेव ॥
नगरनिगमदुर्गग्रामसारामसीमा
गहनगुरुगिरीन्द्रांल्लङ्घमानः क्रमेण । किममृतकमलायाः केलिशैलं क्षमायां
श्रमणधरणिशक्रः सिद्धिशैलं ददर्श ॥ ३ ॥ .. श्रमणानां तपखिनां मध्ये वरणिशको राजा । धरणिशब्दो दीर्घो हस्खोऽप्यस्ति । पूर्व लिखितोऽस्ति ग्रन्थोकेन । सूरिराजः सिद्धिशैलं शत्रुजयगिरि ददर्श पश्यति स्म । उत्प्रेक्ष्यते-क्षमायां भूमौ अमृतं मुक्तिः सैव कमला लक्ष्मीः तस्याः केलिशैलं क्रीडा. करणार्थ पर्वतमिव । अत्र सिद्धिश्रीः खैरं रमते । सूरिः किं कुर्वाण: । क्रमेण विहारपरिपाट्या नगराणि महत्पुराणि देशेषु मुख्यपुराणि राजधानीरूपाणि वा, निगमा नगरस्थानविशेषा बृहद्वणिक्स्थानकानि वा, दुर्गा दुःखेन गम्यन्ते अध्यास्यन्ते इति दुर्गाः कोटाः विषमस्थानानि वा, ग्रामा अल्पचातुर्याणि लघुपुराणि संनिवेशा-वा, सहारामैः कृत्रिमवनरुद्यानरुपवनैर्वा वर्तन्ते यास्तादृश्यः सीमा पुरबाह्यपरिसरभूमयो नगर्यो विभागकृद्भुवो वा, गहनानि शैलसमीपविषमप्रदेशागतवनानि संकीर्णानेकपादपपटलशाखाविशेषा प्रविष्टार्ककिरणदुःसंचारकान्तारा वा, गुरवोऽतितुङ्गशृङ्गा गिरीन्द्राः महाशैलास्तांलामान: अतिक्रामन् ॥ अथ सिद्धिशैलं विशिनष्टि
नयनपुटनिपेयामाश्रयन्काययष्टी
किमु सुकृतसमूहो भारतक्षेत्रभाजाम् ।। निखिलविषयभूषामोषिसौराष्ट्रलक्ष्म्या
यदवनिधरदम्भाच्चारुचूडामणिर्वा ॥ ४ ॥ उत्प्रेक्ष्यते यदवनिधरदम्भाद्यस्य श्रीशत्रुजयशैलस्य व्याजाद्भारतं नाम जम्बूद्वीपमध्यभागस्थमन्दरगिरिदक्षिणदिक्प्रान्तविभागवतिलवणाम्भोधिसंनिधिवति च क्षेत्रं वर्षे भजन्ते जन्मना श्रयन्ते इति भरतक्षेत्रोत्पन्नानां नराणामित्यर्थः । सुकृतसमूहः किमु पुण्यराशिरिव । किंभूतः सुकृतसमूहः । नयनानि भविकलोकलोचनानि एव पुटाः पर्णभाजनानि तैर्निरन्तरं पेयां पातुं सादरमवलोकयितुं योग्यां काययष्टी तनुलताम् । 'स्याहोर्भूयः कणसमुचितः काययष्टीनिकायः' इति नैषधे । आश्रयन् बिभ्रत् वा । अथ वा निखिलाः समस्ता ये विषया देशाः । 'विषयस्तूपवर्तनम् । देशो जनपदो नीवृत्' इति हैम्याम् । तेषां भूषां शोभां मुष्णात्यपहर तीत्येवंशील: सौराष्ट्रनामा देशः शत्रुजय