SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ १५. सर्गः] हीरसौभाग्यम् । ७४९ इति पण्डितश्रीसीहविमलगणिशिष्य पण्डितदेवविमलविरचितायां खोपज्ञहीरसौभाग्यनानि महाकाव्यवृत्तौ अकबरगोष्ठीबन्दिपञ्जरपक्षिमोचनमृगयानियमनसकलजन्तुजातसिद्धोभयानर्भयकथनालापसुखानुभवनसोरीपुरमथुरागोपगिरियात्रानागपुरशिवपुरीप्रतिछापूर्वकचतुर्मासककरणगुर्जरागमनजेजीयाकरमोचनामारिप्रवर्तनशत्रुजयपर्वतार्पणफुरमानादिप्रदानकीर्तिवर्णनादिवर्णनो नाम चतुर्दशः सर्गः ॥ . पञ्चदशः सर्गः। अथ सुहृद इव स्वं सारवस्तु प्रदत्तं प्रमुदितहृदयेनाकब्बरोवीमघोना । श्रमणधरणिभृत्तल्लाभमादातुकामो विमलशिखरिरत्नं प्रेक्षितुं कावति स्म ॥ १ ॥ अथ शत्रुजयप्रदानस्फुरमानांगमनानन्तरं श्रमणधरणिभृत्सूरिराज: विमलनामा श्री. शत्रुजयाभिधानः स एव. शिखरिषु सर्वपर्वतेषु रत्नं सकलतीर्थाधिराजत्वात् । यथा स्नातस्यास्तुती-'मन्दररत्नशिखरे' इति । प्रेक्षितुं दृग्गोचरीकर्तु काङ्क्षति स्म वाञ्छति स्म । रत्नस्य हि प्रेक्षणं युक्तमेव । किं कर्तुकामः । तस्माद्विमलाचलात्सकाशालाभमधिकफलं यात्रया कृत्वा सुकृतोपार्जनात्कर्मक्षयाद्वा मोक्षप्राप्तिरूपं च आदातुकामो गृही. तुमनाः । किंभूतं विमलशिखरिरत्नम् । प्रमुदितहृदयेन हृष्टमानसेन अकब्बरोवीमघोना अकबरपातिसाहिना खं खकीयं तस्य सौराष्ट्राधिपतित्वात्सारवस्तु सम्यक्पदाथै धनरूपं वा प्रदत्तमर्थात्सूरीन्द्राय विश्राणितम् । कस्येव । सुहृद इव । यथा केनापि सौहादभाजा सुहृदः खमित्रस्य सारवस्तु प्रदीयते ॥ . . विदलयितुमिवान्तर्वैरिषवर्गमुच्चै विधिवदुपचरद्भिः षड्डिधीन्ब्रह्ममुख्यान् । प्रतिविमलगिरीन्द्रं भव्यलोकैः परीतो .. व्रतिपतिरथ यात्रां कर्तुकामः प्रतस्थे ॥ २ ॥ ___ अथ दर्शनाकालानन्तरं व्रतिपतिहीरविजयसूरिः विमलगिरीन्द्रं प्रति श्रीशत्रुजयशिलोचयसंमुखं प्रतस्थे प्रतिष्ठते स्म प्रचलति स्म। किंभूतः । भव्यलोकैः विमलाद्रियात्राभिलाषुकभविकजनैः परीतः परिवृतः परिवारितो वा । भव्यलोकैः किं कुर्वद्भिः । विधिवदागमोक्तप्रकारेण ब्रह्म शीलं मुख्यं प्रकृष्टमादिर्वा येषु तादृशान् षट्संख्याकान् । 'एकाहारी भूमिसंस्तारकारी पद्भयां चारी शुद्धसम्यक्त्वधारी । यात्राकाले सर्वसच्चित्तहारी पुण्यात्मा स्यात्सकियो ब्रह्मचारी ॥' इति । विधीनाचारविशेषान् उपचरद्भिः सेवमानैः कुर्वद्भिर्वा । उत्प्रेक्ष्यते-उच्चैरति शयेन। मूलादित्यर्थः । अन्त रित्यव्ययम् । मध्य अमुच
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy