________________
७४
काव्यमाला।
दिशां महेन्द्राः दिक्पालाः । 'पतिः प्रतीच्या इति दिङ्महेन्दैः' इति नैषधे । अहरहनिरन्तरं मदेन प्रोद्धराणां मदोन्नत्तानां खाशासिन्धुराणां निज निज दिग्गजानां रुन्ध. नात्वस्थीकरणादेकत्र स्थाने रक्षणाद्वा तस्याः सूरिकीर्तरश्रवणतोऽनाकर्णनात्खान्ते मनसि निर्विण्णाः खेदखिन्नाः इव जज्ञिरे जाताः । पुनः सिन्धोः सुता समुद्रस्य पुत्री लक्ष्मीस्तां कीर्ति प्रतिगृहं सर्वेष्वपि मन्दिरेषु शुश्राव शृणोति स्म । यदु. कम्-'सायर वप्प मुरारिपिय चंदसरीसा भाउ । लच्छी हीडइ घरघरि महिला एह सहाउ ॥' केव । स्वच्छन्देन्दुमुखीव । यथा खच्छन्दचारिणी विलासिनी प्रतिगृहं वार्तादिकं श्रुतिविषयीकुरुते । किं कृत्वा । जलनिधौ पारावारे निद्रया स्वापेन मुद्रिते मीलिते लोचने नयने यस्य तादृशं तार्क्ष्यध्वजं गरुडकेतुं कृष्णं कान्तं निध्याय दृष्ट्वा ॥
स्वच्छन्दं त्रिजगद्विलासरसिकां कीर्ति व्रतिक्ष्मापतेः ___ संदृब्धोद्धरतानगानवनितावनामृतार्चिःसुधाम् । सोत्कण्ठं पिबतामकुण्ठमनसां विश्वत्रयीजन्मिनां
प्राप्तानुत्तरसंमदा इव तदा संजज्ञिरे. वासराः ॥ ३०५ ॥ तदा तस्मिन्नवसरे विश्वत्रयीजन्मिनां खलों के पाताललोके भूलोंके च जन्मास्त्ये. षामिति विश्वत्रयीजन्मिनां सुरासुरनराणां वासरा दिवसाः प्राप्तो लब्धो न विद्यते उत्तरोऽप्रेतनः पदार्थः कोऽपि यस्मादसाधारणः संमदो नन्दो येषु तादृशा इव संजज्ञिरे संजाताः । किंभूतानां विश्वत्रयीजन्मिनाम् । अकुण्ठमनसां तदेकतानचित्तानां च । किं कुर्वताम् । व्रतिक्ष्मापतेः हीरविजयसूरिराजस्य कीर्तिमेव संदृब्धानि विरचितानि उद्धरानि अतिशायीनि तानानि आलापविशेषा येषु तादृशानि गानामि यासां तानयुतगानानि याभिर्वा तादृशीनां वनितानां निजयुवंतीनां वक्राणि वदनानि एवामृतार्चिषां चन्द्राणां सुधां पीयूषरसं सोत्कण्ठं सह उत्कण्ठया वर्तते यत्तत् पिबतामाखादयतां सादरं भृण्वताम् । किंभूतां कीर्तिम् । खच्छन्दं स्वेच्छया निरङ्कुशं त्रिजगति त्रिभुवनमध्ये यो विलासो विविधकेलीकरणं तत्र रसिकां सरसामुत्सुकां वा ॥ इति सूरिकीर्तिवर्णनम् ॥
यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः ____पुत्रं कोविदसीहसीहविमलान्तेवासिनामग्रिमम् । तद्ब्राह्मीकमसेविदेवविमलेनानन्दतो निर्मिते
वृत्ते हीरगुरोश्चतुर्दशमितः सर्गों बभूवानसौ ॥ ३०६ ॥ पण्डितदेवविमलगणिना आनन्दतः आह्वादानिर्मिते विरचिते हीरगुरोः श्रीहीरविजयसूरेर्वृत्ते चरिते हीरसौभाग्यनाम्नि महाकाव्ये असौ पूर्वव्यावर्णितखरूप एव चतुर्दशत्वेन चतुर्दशसंख्यया वा मितः प्रमाणतां प्रापितः गणितः सर्गः काव्यरचनमयाधिकारविशेषः बभूवान् । कसुप्रयोगः । संजात इति ॥