SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ ७४४ काव्यमाला। शेख: अबलफैजनामा साहिसामन्तः स एवारी येषां तादृशान्पार्षद्यान् सभ्यान् जुषते भजते तद्विधायां वादिननिषष्ठित्रिशती ब्राह्मणान् वादविधायिनः प्रतिवादीभूतान् समस्तानपि अजैषीत् पराजयति स्म । उक्तियुक्तिप्रत्युक्तिभिर्निरुत्तरीकृतवानित्यर्थः । किंवत् । मुनिसुन्दरसूरिवत् । यथा श्रीमुनिसुन्दरसूरिस्तैरभुक्तीयं पण्डितं शताष्ट. केन क्वचिदष्टाधिकसहस्रेण वर्तुलिकावधानेन अजयत्पराबभूव ॥ साहिः सवाईविजयसेनसाधुविधोरिदम् । बिरुदं हीरसूरीन्दोर्जगद्गुरुरिवाददात् ॥ २९४ ॥ साहिरकब्बरो विजयसेनसाधुविधोः सूरीन्द्रस्य सवाईविजयसेनसूरेरिदं बिरुद.. मददाद्दत्तवान् । कस्येव । हीरसूरीन्दोरिव । यथा श्रीहीरविजयसूरेजगद्गुरुरिदं साहिः प्रददौ ॥ वादिनां विजयोदन्तं श्रुत्वा तं मुमुदे गुरुः। तस्य विष्णोरिवाशेषद्विषामानकदुन्दुभिः ॥ २९५ ॥ गुरुहीरविजयसूरिस्तस्य विजनसेनसूरेखं वादिनां विजयस्य निरुत्तरीकरणस्योदन्तं वृत्तान्तं श्रुत्वा मुमुदे जहर्ष । क इव । आनकदुन्दुभिरिव । यथा, विद्याधरान्वशीकृत्य वैताब्यादागतो वसुदेवो विष्णोर्नारायणस्य अशेषद्विषां समप्रशिशुपालजरासंधप्रमुखविद्वेषिणां पराभवनोदन्तमाकर्ण्य मोदते स्म ॥ इति विजयसेनसूरेर्वादे विजयाः स. वाईबिरुदं च ॥ सूरिटैक्षयति स्म सक्षणमिहानेकान्महेभ्याङ्गजा न्मूर्तीनां च सहस्रशो भगवतां चक्रे प्रतिष्ठाः खयम् । एकच्छत्रमिव व्यधत्त भुवने स्वायंभुवं शासनं प्रज्ञाधःकृतगीष्पतिः क्षितिपते राज्यं पुरोधा इव ॥ २९६ ॥ सूरिहीरविजयगुरुरिहास्मिन्महीमण्डले सक्षणं समहोत्सवं यथा स्यात्तथा अनेकान् बहून् महेभ्याङ्गजान् व्यवहारिनन्दनान्दीक्षयति स्म प्रव्राजयामास । च पुनः खयमात्मना सरिः सहस्रशो बहुसहस्रसंख्यानां भगवतां तीर्थकृतां मूर्तीनां प्रतिमानां प्रतिष्ठाश्चक्रे । पुनर्भुवने विश्वे खायंभुवं जैनं शासनमेकच्छत्रमद्वितीयातपत्रमिव व्यधत्त विदधे । किंभूतः । प्रज्ञया खवुद्धथा अधःकृतस्तिरस्कृतो गीष्पतिवृहस्पतिर्येन । क इव । पुरोधा इव । यथा पुरोहितो बुद्धिमत्तया मन्त्रविद्यादिशक्तिमान् क्षितेः पतेः खनृपस्य मन्त्रतत्रादिशक्त्या राज्यमेकच्छत्रं विधत्ते सोऽपि प्रतिभापराभूतपुरुहू. तसूरिः स्यात् ॥ सानन्दं ससुरासुरोरगनरवातैः स्वकान्तायुतैः श्रोतृश्रोत्ररसायनैर्घनरवैर्जेगीयमानां रसात् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy