________________
१४ सर्गः] हीरसौभाग्यम् ।
७४५ तद्विश्वत्रयचित्रकृद्गुणगणैरागत्य कर्णान्तिकं ___ गीतेर्गोचरताममेयसमयं नेतुं प्रणुन्नैरिव ॥ २९७ ॥ सूरे धनबोधनादिचरितप्रोद्भूतकीर्तिप्रथां
प्रीत्याकर्ण्य शिरोविघूर्णनपरे जातेऽखिले विष्टपे । श्रोतुं सोत्सुकमानसो दशशतीमक्ष्णामिवाखण्डलः .
कर्णानाममरावतीविरचितावासादृणीते विधेः ॥ २९८ ॥ आखण्डल: पुरंदरः अमरावत्यां खनगर्यो विरचितः कृत आवासो गृहं येन तादृशा. द्विधेर्विधातुः सकाशात् कर्णानां श्रवणानां दशशतीं सहस्रं वृणीते याचतीव । केषामिव । अक्षणामिव । यथा मम नयनानां दशशती वर्तते तथा श्रुतीनामपि दशशतीं कुरु । कस्मिन् सति । सूरेहरिगुरोभूधनोऽकब्बरसाहिस्तस्य बोधनं प्रतिबोधविधानं तत्प्रमुखं चरितं चरित्रं तस्मात्प्रोद्भूतां प्रकटां जातां कीर्तिप्रथां यशोविस्तारं प्रीत्या प्रमोदेना. कर्ण्य श्रुत्वा । अखिले समस्तेऽपि विष्टपे विश्वे शिरोविघूर्णनपरे चेतश्चमत्कारितया खमूर्धविधूननतत्परे जाते सति । कीर्तिप्रथां किं क्रियमाणाम् । रसादागात् । रसोरागेऽनेकार्थ्याम् । स्वेषामात्मनो कान्ताभिः स्त्रीभियुतैः सहितैः सुरसहिता ये असुरा दानवा उरगा नागा नरा, मनुष्यास्तेषां वान्दैः सानन्दमानन्दकलितं यथा स्यात्तथा श्रोतृणां श्रोत्रेषु कर्णेषु रसायनसदृशैर्घनर्निबिस्तारतरैर्वा रवैर्जेगीयमानामतिशयेन गीतां नरवातैः । उत्प्रेक्ष्यते-विश्वत्रयस्य त्रैलोक्यस्य चित्रकृद्भिरतिशयाश्चर्यविधायिभिर्गुणानां • गणैः कर्णान्तिकं आगत्य श्रवणसमीपे समेत्य मातुं योग्यो मेयो न मेयोऽमेयो गलिता. . वधिसमयं यावद्गीतेर्गानस्य गोचरतां नेतुं प्रापयितुं प्रणुनरिव प्रेरितैरिव ॥ युग्मम् ॥
सूर्याचन्द्रमसौ पुनर्दिनतमीनिर्माणदम्भादिदं __ शुश्रूषारसिकायितानिशमनोवृत्ती इव भ्राम्यतः । भर्ता भोगभृतां तदाश्रवभवनिर्वेदमेदस्विहृ
. न्मन्दं स्वश्रुतिनिर्मितावपि शतानन्दं निनिन्दात्मनः ॥२९९॥ पुनरपरार्थे सूर्याचन्द्रमसौ भानुविधू दिनानां तमीनां रात्रीणां निर्माण करणम् । सूर्यो दिनान् चन्द्रो रात्रीः कुरुते । तस्य दम्भात्कपटाभाम्यतः पर्यटतः । उत्प्रेक्ष्यते-इदं शुश्रूषायां कीर्तिप्रथां श्रोतुमिच्छायां रसिकवदाचरिते अनिशं निरन्तरं मनसो वृत्तिापारो ययोस्तादृशाविव । अपि पुनस्तदाश्रवणेन भवनुत्पद्यमानो यो निर्वेदः खेदस्तेन मेदखि मेदुरं पुष्टं भूतं हृत् हृदयं यस्य तादृशो भोगभृतां नागानां भर्ता खामी नागेन्द्रः खस्यात्मनः श्रुतीनां कर्णानां सहस्रफणत्वात्कर्णबाहुल्यस्य निर्मिती विधाने मन्दमलसं मूर्ख वा शतानन्दं जगत्कर्तारमात्मना स्वेनैव निानेन्द पर्षदि गर्हणामकरोत् ॥