________________
१४ सर्गः] हीरसौभाग्यम् । केनापि प्रकारेण आत्मना स्वेन मामिव आचार्यमपि द्रष्टुं विलोकयितुं काहति कामयते पाञ्छति ॥
गुरोरुपादाय रहस्यविद्यां शिक्षां च साक्षात्किमुदसिद्धिम् । कम्माङ्गजाततिचक्रवर्ती क्रमाञ्चलल्लाभपुरं बभाज ॥ २९० ॥ कम्मानानः साधोरङ्गजातो नन्दनः स एव व्रतिषु साधुषु मध्ये चक्रवर्ती सार्वभौमो विजयसेनसूरीन्द्रः क्रमादनुक्रमेण ग्रामानुप्रामदेशानुदेशविहारपरिपाट्या चलन् प्रतिठमानः लाभपुरं लाहोरनगरं बभाज भजते स्म । लाभपुरनगरं गतवानित्यर्थः । किं कृत्वा । गुरोहीरविजयसूरे रहस्यस्योपनिषदो विद्यां पराज्ञातजैनमन्त्रान् च पुनः शिक्षा हितमतिम् । उत्प्रेक्ष्यते-साक्षात्प्रत्यक्षेण किमुदसिद्धिमुत्तरकालोत्पनसिद्धिमिव ।
निग्रन्थनाथः स विधाय गोष्ठी संप्रीणयामास महीमहेन्द्रम् । वाडामपीयूषरसाभिवर्षी नाह्लादकः कस्य कुमुद्वतीशः ॥२९१ ॥ स निर्ग्रन्थनाथो विजयसेनसूरिः महीमहेन्द्रमकब्बरं संप्रीणयामास प्रह्लादयांचक्रिवान् समतोषयत् । 'प्रीणाति प्रीणयति पृणातीति प्रीणनार्थाः स्युः' इति क्रियाकलापे । समु. पसर्गः । पञ्चमीस्तुतौ यथा-'संप्रीणन्सच्चकोराशिवतिलकसमः कौशिकानन्दिमूर्तिः' इति । किं कृत्वा । गोष्ठी धर्मतत्त्ववार्ता विधाय कृत्वा । किंभूतः सः । वाग्वाण्येव नाम यस्य तादृशो यः पीयूषरसः सुधाद्रवजलं वा अभिवर्षतीत्येवशीलः । युक्तोऽयमर्थः । कुमुद्वतीशश्चन्द्रः कस्य नाह्लादकः स्यात् । अपि तु सर्वस्यापि प्रमोदकारी भवत्येव ॥
श्रीमत्सूरिवरो व्यधत्त वसुधावास्तोष्पतेराग्रहे
णोपाध्यायपदस्य नन्दिमनघां श्रीभानुचन्द्रस्य सः । शेखो रूपकषद्शतीं व्यतिकरे तत्राश्वदानादिभि
भक्तः श्राद्ध इवार्थिनां प्रमुदितो विश्राणयामासिवान् ॥२९२॥ स सूरिष्वाचार्येषु वरः प्रधानो विजयसेनसूरिर्वसुधावास्तोष्पतेर्महीन्द्रस्याग्रहेणोपरोधेन उपाध्यायपदस्य नन्दि विधिविशेष व्यधत्त चक्रे । तत्र व्यतिकरे तस्मिन्नन्दि. -विधानावसरे शेखः अबलफैजनामा रूपकाणां 'रुपया' इति प्रसिद्धानां षट्शती षट्शतानि रूप्यटकानां प्रमुदितो हृष्टः परस्परमैत्र्यात् अश्वदानमादौ येषां तेऽश्वदा. नादयः प्रकारास्तैः कृत्वा अर्थिनां याचकानां विश्राणयामासिवान् प्रददाति स्म । किंभूतः शेखः । भक्तः । क इव । श्राद्ध इव । यथा भक्तश्राद्धोऽपि कस्यचित्खेटस्य योग्यस्य साधोरुपाध्यायपदतनन्दिकरणादिमहोत्सवे खधनमर्थिनां विश्राणयति स्म ॥
साहेः पर्षदि शेखादिपार्षद्यजुषि स प्रभुः ।
अजेपीद्वादिनो वादे मुनिसुन्दरसूरिवत् ॥ २९३ ॥ प्रभुर्विजयसेनसूरिः साहेरकब्बरधरणीरमणस्य पर्षदि सभायाम् । किंभूतायां पर्षदि ।