________________
७४०
काव्यमाला।
नृपेण प्रदत्ता अत एव दानं पूर्व प्रथमतः प्रभोहारसूरेः प्रदाय दत्त्वा तद्योतके तयोः सूरिजीवदययोर्वरवध्वोर्युवतयोदये दातव्ये श्रीमन्तमनेकरत्नवर्णरजतरचनाकं महानन्देन्दिरामन्दिरं सिद्धधराधरं शत्रुजयशैलं प्रददिवान् निष्करं कृतवान् विश्राणयामास । किंभूताममारिकुमारिकाम् । जेजीयाख्यो यः करो जनदण्डस्तस्य या व्यामुतिर्मोचनं सैवालंकारो भूषणगणः संजातोऽस्याः । किं कृत्वा ददौ । पृथिवीं वसाधितसर्ववसुधा निःशुल्का व्यापारादावपि प्रदेयद्रव्यरहिताम् । शुल्कं लोकभाषया 'दाण' यवनभाषया तु 'जगातिः' इत्युच्यते । पुनर्जिनमतमर्हच्छासनं नित्योत्सवं निरन्तरमहामहं विधाय । नृपः किंभूतः । युक्तमुचितं वेत्तीति विदित्वा च करोतीति युक्तकृत् । 'यौतकं युतयोर्देयम्' इति हैम्याम् ॥
निजनामाकं कृत्वा फुरमानं पाहिणोन्नृपः प्रभवे ।
इदमप्यलमकृत ततः करकमलं हंस इव सूरेः ॥ २८१॥ : नृपः पातिसाहिर्निजस्यात्मनो नामाङ्के उत्सङ्गे मध्ये यस्य तादृशं फरमानं कृत्वा विधाय प्रभवे सूरीन्द्राय प्राहिणोत्प्रेषयामास । ततः प्रेषणानन्तरमिदमपि फुरमानं सूरेः कर. कमलं पाणिपञ हंस इवालमकृत भूषयति स्म ॥ . ..
यः पूर्व कलिकालकेलिकलनालीलालयश्रीजुषां । .. म्लेच्छक्षोणिभुजां वशवदतया जज्ञे नृणां दुर्लभः । तिग्मज्योतिरखण्डचण्डिममहःसंदोहदूरीकृत__ ज्योत्स्नारम्भविभावरीशविभवः सौगन्धिकानामिव ॥ २८२ ॥ सौवर्णेन ततो बभूव भविकैर्लभ्योऽत्र गोशीर्षव
जातः साधिकरूपकेण तदनु प्राप्यः कथंचिजनैः। . साहिश्रीमदकब्बरेण यवनक्षोणीभुजा संमदा
सोऽपि श्रीविमलाचलो मुनिमणेश्चके शयालुः शये॥२८३ ॥ यः श्रीशत्रुजयशैल: पूर्व प्रथमं म्लेच्छानामागमनसमये म्लेच्छक्षोणिभुजां यवनं. पातिसाहीनां वशंवदतया आयत्तत्वेनाधीनभावेन यात्रिकजनानां दुर्लभो दुःप्रापो जज्ञे जातः । पूर्व म्लेच्छा हि चढितुं यात्रामपि कर्तु न ददुः । किंभूतानाम् । कलिकालस्य कलियुगस्य केलिकलनायै क्रीडाकरणाथै लीलालयः क्रीडासदनं तस्य श्रियं जुषन्ते भजन्ते । केषामिव दुर्लभः । सौगन्धिकानामिव । यथा तिग्मज्योतिषो श्रीष्मभानोर. खण्डोऽविच्छिन्नो निस्तुषो वा चण्डिमा अतितीव्रता यत्र तादृशेन महसां भूयसः प्रतापानां संदोहेन समुदायेन दूरीकृतो निरस्तो ज्योत्स्नानां चन्द्रिकाणामारम्भोऽभ्युदयो यस्य तादृशस्य विभावरीशस्य चन्द्रमसः विभवः शोभाभरोऽत्र कलाराणां दुर्लभो भवेत् । कहार चन्द्रविकाशि । यथा नैषधे–'कलारमिन्दुकिरणा इव हासभासम्'