SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] हीरसौभाग्यम् । ७३९ ७३९ पालेयेन खिलीकृते शिखरवत्प्रालेयभूमीभृतः शीतार्ति प्रविषय वस्त्रवियुनां संवर्तरात्रीमिव । क्षोणीपालनिभालिताखिलमहाभीलोपलम्भः पथि श्रीवाचंयमशर्वरीवरयितुः संदेशवाक्प्रेरितः ॥ २७८ ॥ श्रीशत्रुजयभूभृतस्तनुमतां यात्रां विनिर्मित्सतां मूलान्मोचयितुं स्वयं करमथो श्रीभानुचन्द्रः सुधीः । तत्सारस्वतवद्मभूषणसरोवोहित्थसंस्थायिनो विज्ञप्तिं कृतवानकब्बरधरापाथोजिनीप्रेयसः ॥ २७९ ॥ अथो सूरिसंदेशलेखागमनानन्तरं भानुचन्द्रनामा सुधीविद्वान् । भानुचन्द्रप्रज्ञांश इ. त्यर्थः । तत्पूर्वव्यावर्णितखरूपं यत्सारखतानां कश्मीराणां वर्त्मनो मार्गस्य भूषणम. लंकारभूतं सरो जयनललकाख्यस्तटाकः तत्र वोहित्थे वहने संस्थायिनः तिष्ठतीत्येवंशीलस्याकब्बरनामधरांपाथोजिनीप्रेयसः पृथिवीपद्मिनीपतेर्भूमीभानोः विज्ञप्तिम् । यवनजाति प्रसिद्धा अरजीमित्यर्थः । कृतवान् चकार । किं कर्तुम् । श्रीशत्रुजयभूभृतो विमलाचलस्य यात्रां विनिर्मित्सतां कर्तुमिच्छतां श्रीशजयशैलमधिरुह्य ऋषभदेवं नन्तुं पूजयितुं वा कासतां तनुमतां भव्यजनानां कर राजदेयांशं मूलादादितः सर्वथैव खयमात्मनैव मोचयितुं त्याजयितुम् । किंभूतो भानुचन्द्रः । श्रीवाचंयमानां मध्ये शर्वरीवरयितुः निशानाथस्य संदेशवाचा उदन्तप्रेषणेन प्रेरितः । पुनः किंभूतः । पथि मार्गे क्षोणीपालेन पृथिवीपतिना साहिना निभालितो दृष्टः अखिल: समस्तः महानतिशायी आभीलस्य पीडायाः शीतव्यथायाः उपलम्भः प्राप्तिर्यस्य अत एव पथि मार्गे शीतार्ति शीतोद्भूतां पीडां प्रविषह्य मर्षयित्वा । उत्प्रेक्ष्यते-वस्त्रैर्वसनैर्वियुञ्जन्ति पृथग्भवन्ति तेषां वस्त्ररहितानां संवर्तरात्री कालरात्रीमिव क्षयकारिणीम् । पथि किंलक्षणे । प्रालेयेन हिमेन खिलीकृते विषमे निष्पादिते । किंवत् । शिखरवत् । यथा प्रालेयभूमीभृतः तुहिनाचलस्य शिखरं शृङ्ग प्रालेयेन हिमेन स्थपुटीक्रियते विषमं विधीयते ॥ युग्मम् ॥ भूभृत्कूकुद एष जेजियकरव्यामुक्त्यलंकारितां योऽमारि स्वकुमारिकामिव मुदा पूर्व प्रदाय प्रभोः । निःशुल्कां पृथिवीं पुनर्जिनमतं निर्माय नित्योत्सवं श्रीमत्सिद्धधराधरं प्रददिवांस्तद्यौतके युक्तकृत् ॥ २८० ॥ 'सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः' इति हैम्याम् । एष भूभृदकब्बर एव कूकुदः खस्यात्मनः कुमारिकां कन्यामिवामारिं जीवदयां सूरिभिरमारिर्मागिता
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy