SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] हीरसौभाग्यम् । ७४१ इति । 'सौगन्धिकं तु कलारम्' इति हैम्याम् । ततोऽप्राप्तेरनन्तरं कियता कालेनात्र काले भूमौ वा सौवर्णेन सुवर्णटकेन । सुवर्णविकारः सौवर्ण तेन 'सोठइयो' इति लोकप्रसिद्धेन । 'दीनारेण' इति पाठो वा । भविकर्यात्रिकजनैर्लभ्यः प्राप्यो बभूव । किंवत् । गोशीर्षवत् । यथा चन्दनं सौवर्णेन खर्णमूल्येन लभ्यते, तदनु हेमटड्वेन प्राप्तेरनन्तरं पञ्चमुद्रिकाभिर्महंमुदीभिः, तदनु च कथंचिन्महत्कप्टेन विज्ञप्तिभिः साधिकरूपकेण तिसभिर्मुद्रिकाभिः कृत्वा कथंचिजनैः प्राप्योऽभूत् । सोऽप्येवंविधदुष्प्रापोऽपि श्रीवि. मलाचल: श्रीशत्रुजयपर्वतः यवनक्षोणीभुजा मुद्गलभूमण्डलाखण्डलेन पातिसाहिना श्रीमता चतुर्दिक्चक्रलक्ष्मीवता अकब्बरेण मुनिमणे: श्रीहीरविजयसूरेः शये शयालुः पाणौ स्थाता चक्रे । गुरुकरकमलवीकृत इत्यर्थः । कस्मात्। संमदाद्गुरूपरि गुरुप्रीत्या ॥ . प्राचीनजैननरपतिवारक इव निष्करे विमलशैले। विदधुर्विधिना यात्रां तत्र मनुष्याः परोलक्षाः ॥ २८४ ॥ परोलक्षा लक्षसंख्या मनुष्या यात्रिकास्तत्र विमलशैले शद्बुजयपर्वते विधिना शा. स्त्रोकप्रकारेण यथा 'एकाहारी भूमिसंस्तारकारी पदयां चारी शुद्धसम्यक्त्वधारी । यात्राकाले सर्वसचित्तधारी पुण्यात्मा स्यात्सकियो ब्रह्मचारी ॥' इत्युक्तविधिना संघपतिभवनविधिना वा यात्रां विदधुः चक्रुः । किंभूते । विमलशैले निकरे कररहिते। कस्मिन्निव । प्राचीनजैननरपतिवारके इव । यथा प्राचीनाः पूर्वकालोत्पन्नास्तथा जैना जिनशासनरजितमनसः ये नरपतयो भरताद्या भूपालास्तेषां वारके । तदाज्यसमये विमलाद्रिनिर्गतः करो यस्मात्तादृश आसीत् ॥ इति एरोविमलाचलार्पणम् ॥ वर्षाकाले व्रतीन्द्रौ तौ राजधान्यपुरेऽन्यदा।। जम्बूद्वीपे पयोजन्मबान्धवाविव तस्थतुः ॥ २८५ ॥ अन्यदा अन्यस्मिन् कस्मिंश्चिद्वर्षाकाले प्रावृट्समये चतुर्मासके तो व्रतीन्द्रौ श्रीहीरविजयसूरिविजयसेनसूरी राजधान्यनाम्नि पुरे नगरे तस्थतुः स्थिती । अर्थाच्चतुर्मासकम् । काविव । पयोजन्मबान्धवाविव । यथा जम्बूद्वीपे द्वौ भास्करौ तिष्ठतः ॥ श्रीमत्सरिपतिः प्रसन्नहृदयः सन्भानुचन्द्राभिध. ___.प्राज्ञेन्दोरथ वाचकाह्वयपदं दत्ते स्म वाचैव सः । संस्थास्त्रोरतिदूरतोऽपि कुमुदां पतेरिव ज्योत्स्नया . प्रोद्यत्पार्वणशर्वरीवरयिता प्रोज़म्भतावैभवम् ॥ २८६ ॥ अथ राजधान्यपुरागमनचतुर्मासकस्थितिकरणानन्तरं प्रसन्नं शत्रुजयकरमुक्तिसत्कपातिसाहिफुरमानप्रेषणेन कृत्वा प्रसादोपेतं हृदयं मनो यस्य तादृशः स जगद्गुरुबिरुदतया ख्यातः श्रीमत्सूरिपतिः श्रीहीरविजयसूरिरतिदूरतो लाभपुरे लाहोरनगरे १. पृषोदरादित्वेनैवायं प्रयोगः कल्प्यः.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy