________________
....
....
....
...
.
..
.
.
.
...
....
....
...
.
.
...
....
.
७३२
काव्यमाला। रात् । जेसलमेरुपुरादित्यर्थः । आगत्य । किंभूतो मण्डनः । संघेन । यद्यपि संघशब्देन चातुर्वण्ये गृह्यते, तथाप्यत्राधिकारात् श्राद्धश्राद्धीसार्थेनान्वितः सहितः ॥
.......................।
"."" ॥ २५८ ॥ परेऽपि अन्यान्यनगरसंबन्धिनः संघाः क्रमात्तत्र नागपुरे उपागत्य समेत्य विभोहींरसूरेः पादांश्चरणानभिवन्द्य नमस्कृत्य निजं निजं खं खं स्थानं नगरप्रामादिकमास्पदं ययुगताः । कानिव । अभिवन्द्य तीर्थानिव । यथा संघा विविधग्रामनगरजनपदसंवन्धिनः श्राद्धीसखश्राद्धसार्थाः शत्रुजयोजयन्ताव॑दाष्टापदसमेतशिखरादिषु विभोर्भगवतः पादान् जिनबिम्बान् जिनपादुकान्वा अभिवन्द्य प्रणम्यार्चित्वा च निजनिजस्थानं यान्ति ॥ .
यदन्यनीवृत्ततिमुद्रिकायां बिभर्ति माणिक्यमिवात्र लक्ष्मीम् । क्रमात्प्रतिक्रम्य स तत्पुरे चतुर्मासी विहारं विदधे व्रतीश्वरः ।। २१९॥ स सूरिः क्रमात्पर्युषणापरिपाच्या तत्पुरे तस्मिन्नागोरनगरे चतुर्मासी प्रतिक्रम्य अथ वा कार्तिकचतुर्मासकं प्रतिक्रम्य व्रतीश्वरो यतिराजो हीरसूरिविहारं विदधे विहितवान् प्रतिष्ठते स्म । तत्किम् । यत्पुरम् अन्येऽपरे ये नीवृतो जनपदास्तेषां ततिः श्रोणिः सैव मुद्रिका अङ्गुलीयकं तस्यां माणिक्यं महर्घ्यमणिरिवात्र भूमण्डले लक्ष्मी शोभा बिभर्ति धत्ते । 'और देस सव मुंदडी उर नागोर नगीना' इति तत्रत्यजनैः प्रसिद्धिरद्ययावत् श्रूयते ॥ इति नागपुरचतुर्मासकम् ॥ पींपाढिनाम्नि स्वपुरे प्रभोर्मरुत्पुरोपमे नागपुरादुपेयुषः।। तालाह्रसाधुळधिताधिकोत्सवं तदा प्रदेशीव मुदान्तिमार्हतः ॥२६॥ तदा तस्मिन्सूरिसमागमनावसरे पींपाढि इति नाम यस्य तस्मिन् पींपाढिनानि खपुरे आत्मीयनिवसननगरे ताला इत्याह्वा नाम यस्य तादृशः साधुर्वणिक् । तालोसाह इत्यर्थः । प्रभोहीरसूरेरधिकमतिशायिनमुत्सवं व्यधित कृतवान् । प्रभोः किं चक्रुषः । नागपुरादुपेयुषः आजग्मुषः । किंभूते खपुरे। मरुत्पुरोपमे मरुतो देवास्तेषां पुरे पत्तनममरावती तस्योपमा सादृश्यं यस्य तादृशे । क इव । प्रदेशीव । यथा केशीप्रतिबोधितप्रदेशी नामा नृपतिः अन्तिमार्हतश्चरमतीर्थकृतः श्रीमहावीरस्वामिनः छद्मस्थावयामप्रतिबद्धं विहरतः खपुरं वकीयश्वेताम्बीनगर्या समागतस्यात्यभ्यधिकमहोत्सवं विधत्ते स्म । किं च श्रीसूरीणामागमनावसरे आउआतुरे तालाह आसीत् । तदवसरे तु पातिसाहेरायत्तत्वात्पींपाढिनगरे निवसतीति तात्पर्यम् ॥
ग्रामाश्वद्विपताम्रखान्यधिपतिः सामन्तवद्योऽजनि
श्रीमालान्वयभारमल्लतनयः श्रीइन्द्रराजस्तदा ।