SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] हीरसौभाग्यम् । आह्वातुं सुगुरून्स्वकीयसचिवास्तेनाथ संप्रेषिताः प्रासादे निजकारिते भगवतां मूर्तिप्रतिष्ठाकृते ॥ २६१ ॥ तदा तस्मिन् पींपाढिपुरपादावधारणप्रस्तावे श्रिया युक्त इति नामा वणिक् वर्तते । किंभूतः । श्रीमाल इत्यन्वयो वंशो यस्य तादृशो यो भारमल्लस्तस्य तनयः पुत्रः । पुनः किंभूतः । ग्रामाणां पश्चशतीजिनानां संनिवेशानां तथा अश्वानां तुरंगमाणां तथा द्विपानां हस्तिनां तथा ताम्राणां खानेराकरस्याधिपतिः खामी। किंवत् । सामन्तवत् । यथा सामन्तः सीमालभूपाल: कतिचिद्रामपुराधिपतिः सामान्यनृपः ग्रामाश्वद्विपखान्यधिपतिः स्यात् । राजन्यानां तु 'वागिउ' इति, यवनानां तु 'उंवरो' इति प्रसिद्धस्तत्तुल्य इति । अथ प्रभोर्मरुदेशे समागमनानन्तरं तेनेन्द्रराजेन सुगुरून् हीरविजयसूरीन् आह्वातुं खविराटनगरे आकारयितुं स्वकीयसचिवा निजप्रधानपुरुषाः संप्रेषिताः प्रस्थापिताः । किमर्थम् । निजेनात्मना कारित निर्मापिते प्रासादे विहारे भगवतां तीर्थकृतां मूर्तिप्रतिष्ठाकृते प्रतिमा प्रतिष्ठापयितुम् ॥ ज्ञात्वा शक्ति........... .......... ............ ................ .. ... . .... .... .... ... . ....... ॥ २६२॥ अथ विज्ञप्तेरनन्तरं सूरिवरः अभ्यर्णगं समीपस्थायिनं श्रीहर्षाङ्गजवाचकं श्रिया वाचकलक्ष्म्या युक्तं हर्षा इति नाम्रो वणिज: अङ्गजं नन्दनं कल्याणविजयनामानं वा. चकेववनिमणिमुपाध्यायराज प्रेषीत् तत्र प्रख्यापयति स्म । उत्प्रेक्ष्यते-अपरामन्यां खीयामात्मीयां मूर्ति किं तनूमिव खप्रतिमामिव । किं कृत्वा । खामात्मीयामशक्ति शरीरासामर्थ्य ज्ञात्वा अवधार्य । किं कर्तुम् । इतः पींपाढिपुरात् मेवातमण्डलस्थवि. राटनगरे गन्तुं प्रयातुम् । ततः प्रेषणानन्तरं सोऽपि वाचकेन्द्रोऽपि सपदि शीघ्रमन विच्छिन्नप्रयाणैः क्रमाद्रामानुग्रामविहारपरिपाट्या तत्पुरं विराटनगरं प्राप्यासाद्य कुप्तैनिर्मितैरसाधारणैस्तस्य तेन च महामहैः प्रतिष्ठां विरचयांचक्रे कृतवान् ॥ रत्नस्वर्णसुवर्णकोपलमयाप्ता प्रतिष्ठाक्षणे ___ हस्त्यश्वांशुकभूषणाशनमुखानेकप्रकारैस्तदा । भोजेनेव पुनर्गृहीतवपुषा विश्वार्थिदौस्थ्यच्छिदे चत्वारिंशदनेन रूपकसहस्राणि व्ययीचक्रिरे ॥ २६३ ॥ तदा तस्मिन् रत्नानि स्फटिकादीनि स्वर्ण काञ्चनं सुवर्णकं पित्तलम् । यदुक्तं हैम्याम्-'रीरीरीरीवरीतिश्च पित्तलोहं सुवर्णकम्' इति । उपल: मम्माणीखनिजन्मा पाषाणस्त एव स्वरूपं यासां तादृशा आप्तानां जिनानामर्चाः प्रतिमाः तासां प्रतिष्टाक्षणे
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy