SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् । नाम यस्य तादृशं सरो महातटाकं तेभ्यो हीरविजयसूरिभ्यः अदत्त ददिवान् । किं. भूतम् । नैके बहवः क्रोशा गव्यूतानि तैमीयते स्म प्रमाणीक्रियते स्मेति द्वादशकोशप्रमाणम् । पुनः किंभूतम् । दृशां चक्षुषां विषयं गोचरी भजतीति ताहक पार परतटं यस्यैवंविधं न । अदृग्गोचरपारमित्यर्थः । किंवत् । पयोराशिवत् समुद्रमिव ज्ञायते । पुनः किंभूतम् । क्रीडन्तो जलकेली कुर्वाणा ये कुञ्जरा हस्तिनस्तथा वाजिनस्तुरङ्गमास्तेषां राजयः श्रेणयस्तथा वनिता युवतयस्ताभिर्युक्ता मर्त्या मानवाः सतरुणीकाः तरुणास्तेषां व्रजा गणास्तै_जितं भूषितम् । पुनः किंभूतम् । नाना विविधजातिज. न्मानो ये नीडजाः पक्षिणः तथा मीना मत्स्या जातयो यत्र तादृशेन नीरेण मरितं संपूर्णम् ॥ इति डामरतटाकार्पणम् ॥ भूजानिरित्यालपति स्म सूरयः श्रीमद्गिरा मे न्यवसद्दया हृदि । हंसी पयोदध्वनिनैव मानसे पृच्छामि किं त्वेतदहं गुरून्प्रति॥१९॥ भूर्भूमी जाया यस्यास्रौ भूजानिः पृथ्वीपतिरित्यप्रे वक्ष्यमाणमालपति स्म कथया. मास । हे सूरयः, श्रीमद्राि युष्माकं वाचा मे मम हृदि हृदये दया सर्वसत्त्वोपरि कृपा न्यवसन्निवासं कृतवती । केव । हंसीव यथा पयोदध्वनिना पर्जन्यगर्जारवेण मराली मानससरसि निवसति । मेघागमे हि राजहंसाः कलुषजलत्वादितो मानससरसि यान्तीति कविसमयः । चम्पूकथायामपि 'प्रोषितकलहंसवयसि । 'वर्षावर्णने प्रोषिता मानसं प्रति प्रस्थापिता हंसपक्षिणो येन' इति तद्वृत्तिः । किं तु पर विशेषः प्रश्नो विद्यते । महं गुरून् युष्मान्प्रति पृच्छामि ॥ • • क: प्रश्नस्तमेवाह- . . अनेहसीव युग्मिनां न कोऽपि कं हनिष्यति ।। कदाचिदीदृशं दिनं समेष्यति क्षितौ प्रभो ॥ १९७ ॥ हे प्रभो, कदाचित् कस्मिन्नपि प्रस्तावे क्षितौ पृथिव्यामीदृशं दिनमेवंविधो वासरः समेध्यति समायास्यति । यस्मिन् समये दिवसे वा कोऽपि लघुद्धोऽपि सिंहव्याघ्रादिहिसकोऽपि कमुत्तुङ्गमपि जन्तुं न हनिष्यति नैव व्यापादयिष्यति । कस्मित्रिव । अनेहसीव । यथा युग्मिनां युगलिकानां समरे अवसर्पिण्याः प्रथमद्वितीयवतीयारकलक्षणे काले कोऽपि न हन्ति ॥ इति सर्वजगजन्तुकृपाविषयः प्रश्नः ॥ कलौ युगे पाप्मपूर्णे दुर्लभं दिनमीदृशम् । इत्युक्ते गुरुणा किंचिद्विचिन्त्येत्यब्रवीन्नृपः ॥ १९८॥ पाप्मभिर्दुष्कृतैः पूर्णे भरिते कलौ ईदृशं श्रीमदुक्तं जगज्जन्तुहितावहमहो दुर्लभं दुःप्राप्यम् । गुरुणा इत्युक्त कथिते सति किंचिद्विचिन्त्य विचारयित्वा नृप इत्यने वक्ष्यमाणमब्रवीजगाद ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy