________________
७१२
काव्यमाला।
पलाशतां बिभ्रति यातुधाना इवाखिला अप्यनुगामिनो मे । अमारिरेषां न च रोचते क्वचिन्मलिम्लुचानामिव चन्द्रचन्द्रिका १९९ हे गुरो, म मम अखिला: समस्ता अपि अनुगामिनः सेवकाः । 'सहायोऽभिजनोऽश्व. जीविगामिचरप्लवाः । सेवकोऽथ' इति हेम्याम् । मुद्गलप्रस्थानादयो यवनाः पलाशतां पलं मांसमश्नन्ति खादन्तीति पलाशास्तेषां भावः मांसभुक्त्वं विभ्रति । मांसाशिनः सन्तीत्यर्थः । के इव । यानधाना इव । यथा राक्षसाः पलादतां दधते । च पुनरत एव कारणादेषामनुचराणां यावद्यवनानाममारिजीवदया न रोचते न खदते । लुब्धकानिवैतान् जीवानुकम्पा न प्रीणाति इत्यर्थः । केव । चन्द्रदन्द्रिकेव । यथा चान्द्रस्य सुधारुचेश्चन्द्रिका कौमुदी मालेम्लुचानां चौराणां न रोचते । दन्तानामपि चन्द्रिका स्यात् । यथा 'दशनचन्द्रिकया व्यवभासितम्' इति रघौ प्रोक्तमास्ते । तन्निरा. साथै चन्द्रचन्द्रिकेति ग्रहणमत्र ॥
शनैः शनैस्तेन मया विमृश्य प्रदास्यमानामथ सर्वथैव । दत्तामिवैः वयान्तु यूयममारिमन्तर्महतेव'कन्या ॥ २० ॥ हे पूज्याः, यस्माजीवदया मुद्गलानां म्लेच्छानां न रोचते तेन कारणेन त्रिकरणशुद्धथैव दानाभिप्रायेण विमृश्य अमारिप्रदानयोग्यदिवसादीनां विचार विधाय शनैः शनैर्मन्दं मन्दं मस्तकैरिव दिनैः प्रदास्यमानामेतां श्रीमदुकाममारे जीवपालनरूपां सर्वथा सर्वप्रकारेणैव यूयमन्तश्चित्ते दत्तामेवावयान्तु जानन्तु । कामिव । कन्यामिव । यथा महता उत्तमेन । 'अमोघा महतां वाणी' इति वचनात् । तथा च 'कूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्नमचलमनसा न चलपुंसां युगान्तेऽपि ॥' इत्यपि वचनाञ्च प्रदास्यमानां खयं मनसि कल्पितां कथितां वा दत्तामिव ज्ञायते. ऽवश्यम् ॥ इति गुरोः पुर इत्यग्रे जीवामारिप्रदावकथनम् ॥
प्राग्वत्कदाचिन्मृगयां न जीवहिंसां विधास्ये न पुनर्भवद्वत् । सर्वेऽपि सत्त्वाः सुखिनो वसन्तु खैरं रमन्तां च चरन्तु मद्वत् ॥२०१॥ हे गुरो, अहं कदाचित् कस्मिन्नपि समये मृगयामाखेटकं न विधास्ये। किंवत्। प्राग्वत् । यथा पूर्व श्रीमन्मिलनात्प्रथमं मृगयां कुर्वाणोऽभवं तद्वत्पुनर्मंगयां विनापि जीवहिंसा निरपराधवन्यप्राम्यजन्तूनां वधं न करिष्ये। किंवत् । भवद्वत् । यथा भवन्तः कदाचिन्मृ. गयां न कुर्वन्ति, अथ सर्वप्राणातिपातविरतत्वासापराधनिरपराधजीववधं सर्वथा न विदधते, अहं तु गृहमेधित्वाद्धरणीधरत्वेन दुष्टादुष्टनिग्रहपालनधर्मत्वान्निरपराधजीववधं न निर्मास्ये । अथ मृगयान्यसत्त्ववधनिषेधानन्तरं सर्वे समस्ता अपि जलजाः स्थलजा वनजा नगरपामजाश्च मत्स्यादयो मुगादयः श्वापदा गोमहिषमेषादयश्च सत्त्वाः प्राणिनः सुखिनः सौख्यभाजः वसन्तु भवन्तु । पुनः खैर स्वेच्छया रमन्ता क्रीडन्नु । स्त्रीभिः समं