________________
१४ सर्गः] हीरसौभाग्यम् ।
७०९ महानुभावा एवेत्याश्चर्यम् । आ सामस्त्येन सर्वाङ्गीणोल्लसद्रोमाञ्चकञ्चकत्वेन दधानः 'बिभ्राणः॥
प्रारभ्यमेव कनभोदशमी शमीश
यावन्नभस्य बहुलेतरषष्ठिका स्यात् । । तावच्चरन्तु सुखमङ्गिगणास्त्रिलोकी
जीवातुनेव भवतां वचसेत्युदित्वा ॥ १९१ ॥ स्वाह्वाङ्कितं कजसुहृन्मितवासराणां - बिनद्विचित्ररुचिकाञ्चनचारिमाणम् । अम्भोनभोवनतनूमदमारिसत्कं
प्रादायि तेन गुरवे फुरमानषटुम् ॥ १९२ ॥ तेनाकब्बरसाहिना खाह्वाङ्कितं निजनामकलितम् , तथा कजसुहृदः कमलबान्धवाः सूर्याः तैर्मितानां प्रमाणीकृतानां द्वादशसंख्याकानां वासराणां दिवसानाम् , तथा अम्भसां पानीयानाम् , तथा नभसाम् । वियच्चराणामित्यर्थः । तथा वनानामुपलक्षणाजनपदनगरपुरग्रामाणां ये तनूमन्तः अम्भश्चरा मत्स्य कच्छपादयः नभश्चरा मयूरशुककलिविङ्कादयः वनचराः शशशम्बरहरिणादयः प्रामादीनां महिषमेषादयः एतेषां जीवानाममारिः जीववत्पालनदया तत्सत्कं तत्संबन्धि स्फुरन्मानानां साहिनाममुद्राङ्कितलेखविशेषाणां षट् गुरवे हीरविजयसूरये प्रादायि प्रदत्तम् । किं कुर्वत् । विशिष्टानि विचित्राण्याले. ख्यानि यत्र रुच्या स्फुरज्ज्योतिषा युक्तस्य काश्चनस्य । अथ वा विशिष्टा मनोज्ञा चित्रा विस्मयकारिणी । अथ वा विचित्रा नानाप्रकारा रुचिः कान्तिर्यस्य तादृशस्य काञ्चनस्य कनकस्य चारिमाणं मनोहरतां बिभ्रद्धारयत् । दत्तं किं कृत्वा । इत्यमुना प्रकारेणोदित्वा कथयित्वा । इति किम्। त्रिलोक्यास्त्रिभुवनस्य जीवातुना जीवनौषधिनेव। आकाशेन खला ऊर्ध्वलोकः, बिलादिना अधोलोकः, भूमिमध्यमलोकः, इति त्रिलोकी जाताः । भवतां श्रीपूज्यानां वचसा अङ्गिगणा जन्तुव्रजाः तावत्तावन्तं समयं सुखं सातेन चरन्तु 'पर्यटयन्तु भक्षयन्तु वा यदृच्छया । 'चर गतिभक्षणयोः' अर्थत्वात् । किं यावत् हे शमीश उपशमवतामवतंस, मेचकनभोदशमीमारभ्य श्रावणबहुलदशमीदिनमादौ कृत्वा इदं तु गुर्जरमण्डलानुगतं वचः अन्य देशापेक्षया तु भाद्रपदकृष्णदशमी स्यादिति श्रावणकृष्णदशमी प्रथमं संस्थाप्य यावत् यावता कालेन नभस्य भाद्रपदमासस्य बहुळेतरा शुक्ला अथ वा बहुल: कृष्णपक्षः तस्मादितरोऽन्यः शुक्लपक्षस्तस्य षष्ठिका षष्ठी तिथिः स्याद्भवेत् ॥ युगलम् ॥
व्यक्तिर्यथा प्रथममार्ग्यत गुर्जराणां
सौराष्ट्रमण्डलफतेपुरदिल्लिकानाम् ।