________________
१४ सर्गः ]
हीरसौभाग्यम् ।
६९७
स्पति: स्वस्यात्मन उच्चतायाः उच्चत्वस्य पदं स्थानं प्रददातीति प्रदम् अन्यराशेः पूर्वस्मान्मिथुनराशेः शशिनः शशाङ्कस्य सौथं गृहं कर्क राशिम् । 'प्रोक्तः कर्कस्य चन्द्रमाः' इति वचनात्। विभूषयति। कर्कराशिगतो गुरुरुच्चः प्रतिपाद्यते ॥ इति पुनः फतेपुरागमनम् ॥ महीहिमज्योतिरियेष खञ्जनो घनात्ययस्येव तदास्य दर्शनम् ।
अमुं स गोष्ठीप्रविधित्सया पुनर्निकेतने शेखमणेरजूहवत् ॥ १९४ ॥ तदा तस्मिन् सूरेः फतेपुरे समागमावसरे महीहिमज्योतिरकब्बर साहिः अस्य हीरसूरेर्दर्शनमियेष अभिलषति स्म । क इव । खञ्जन इव । यथा खञ्जरीटो घनात्ययस्य शरत्कालस्य दर्शनमिच्छति । पुनर्दर्शनेच्छानन्तरं द्वितीयवारममुं सूरिं शेखमणेर - लफैजनानो यवनगुरुरत्नस्य निकेतने भवने अजूहवत् आकारयामास । कया । गोष्ठीप्रविधित्सया धर्मवार्ता कर्तुं काङ्क्षया ॥
क्रमेण वाचंयमयामिनीमणिर्विभूष्य शेखप्रमुखस्य मन्दिरम् ।
शिरोगृहं तस्य पुनः पवित्रयांचकार जम्भारिरिव त्रिविष्टपम् ॥ १९५ ॥ वाचंयमयामिनीमणिः श्रमणशर्वरीरत्नं सूरिः पुनर्गृहागमनादनु शेखगृहस्य शिरोगृहं चन्द्रशालामुपरितन पिहनिकां पवित्रयांचकार पावनीकृतवान् । किं कृत्वा । क्रमेण आगमनाकब्बराकारणपरिपाठ्या तस्याबलफैजनाम्नः शेखप्रमुखस्य यवनगुरुमुख्य स्य मन्दिरं निवाससौधं विभूष्यालंकृत्य । यत्र पूर्वे साहिमिलनसमये समेत्य गोष्टी अनुष्ठिता आसीत्, तदलंकृत्य तस्य सद्मनः चन्द्रशालामलंकरोति स्म । क इव । जम्भारिरिव । यथा पुरंदरः कुत्रचिद्गत्वा गतः सन् त्रिविष्टपं स्वर्ग पवित्रयति ॥ इति पुनर्गुरोः शेखगृहागमनम् ॥
अथात्मधाम्नीव स शेखमन्दिरे समेत्य भूमीतलशीतलद्युतिः । . इवाङ्कुरान्कल्पतरोर्मुनीशितुर्मुनीनिह प्रेक्ष्य हृदा मुदं दधौ ॥ १५६ ॥ अथ सूरेः शेखमन्दिरे समागमनानन्तरमकब्बरनामा भूमीतलशीतलद्युति: मेदि - नीमण्डलशीतकान्तिः राजा पातिसाहिः इह शेखमन्दिरे कल्पतरोः सुरद्रुमस्य अङ्कुरा'न्प्ररोहानिंव मुनीशितुः सूरेः मुनीन् वाचंयमान्प्रेक्ष्य विलोचनगोचरीकृत्य हृदा हृदयेन 'मनसा कृत्वा मुदमानन्दं दधौ । किं कृत्वा । शेखस्य मन्दिरे सद्मनि समेत्यागत्य । कस्मिन्निव । आत्मधानीव निजवेश्मनीव ॥
क्रमादमीषामभिधाः सुधारसद्रवानिवापृच्छच पिबञ्छ्रवः पुटैः । प्रमोदवांस्तद्गृहचित्रशालिकां ततः स्वयं क्ष्मारमणोऽधिरूढवान् ॥१९७॥ ततः सूरिमुधांशुसाधूनां पृथङ्नामप्रश्नतदाकर्णनानन्तरं स्वयमात्मना क्ष्मारमणो भूमीवल्लभः तद्गृहस्य शेखसौधस्य चन्द्रशालिकामुपरितनीं भूमिकामारूढवान् अधिरोहति स्म । किंभूतः क्ष्मारमणः । प्रमोदवानानन्दकलितः । किं कुर्वन् । क्रमाद्गुरुलघुपरिपाव्या अभीषां सूरिसाधूनामभिधा नामानि आपृच्छ्य पृथक् पृथक् दृष्ट्वा ततः
•