________________
१९६
काव्यमाला। पदद्वन्दप्रतिविम्वाभ्यां वाते ये । किं कृत्वा । पदाम्बुजैः । पूज्यत्वाद्बहुवचनम् । चरण. कमलैजीर्ण शौर्यपुरं विभूष्यालंकृत्य ॥
दिनद्वयीं तद्यदुवंशबाहुजव्रजान्कृपाधर्मधियो विधाय सः । ततो मुनिक्षोणिमणिय॑वीवृतत्तटात्पयःपूर इवापगापतेः ॥११० ॥ स मुनिक्षोणिमणिहीरविजयनामा साधुवसुधारत्नं सूरीन्द्रः ततः शौर्यपुरान्यवीवतत् निवर्तते स्म पश्चाद्ववले । क इव । पयःपूर इव । यथा आपगापतेर्नदीनाथस्य. ' समुद्रस्य पानीयप्लवः तटात्तीरानिवर्तते । 'जयी महीमानिव वार्धिरोधसः' । क इव । महीमानिव । यथा दिग्जैत्रयात्रासु अप्रतिहतशक्तित्वेन जयी राजा अर्थाच्चतस्रो दिशो विजित्य वार्धिरोधसः पयोनिधिप्रतीरान्निवर्तते । किं कृत्वा । दिनद्वयीं वासरयुगलम् । यावत्कालाध्वनोनॆरन्तर्ये द्वितीयावत् । तस्मिन् शौर्यपुरे यदुवंश्यान्यादवकुलोत्पन्नान् बाहुजानां राजपुत्रसुभटानां व्रजान् गणान् । 'राजन्यो बाहुसंभवः' इति हैम्याम् । 'संध्याधियेवास्तं यान्ति समस्त्रबाहुजभुजावेजःसहस्रांशवः' इति नैषधे । कृपा जीवाहिंसा सैव धर्मस्तत्र धीर्बुद्धिः परिणामो येषां तादृशान् विधाय कृत्वा ॥
गते प्रिये कापि निजे जनार्दने किमेत्य नेमिप्रभुदेवरान्तिके । स्थितां समुत्तीर्य यमीं शमीश्वरः पुरं प्रयातः पुनरागराभिधम् ॥१५१ शमीश्वरो मुनिनायकः सूरिः पुनर्व्याघुट्य आगरा इत्यभिधा नाम यस्य तादृशं पुर नगरं प्रयातो गतवान् । किं कृत्वा । यमी यमुनां समुत्तीर्य नावा लयित्वा । किंभूतां यमीम् । उत्प्रेक्ष्यते-निजे आत्मीये प्रिये भर्तरि जनार्दने कृष्णे क्वापि कुत्रापि निजा. भिलषिते स्थाने गते प्रयाते सति नेमिप्रभुः अरिष्टनेमिनाथः स एव देवरो निजभतुर्लघुभ्राता तस्यान्तिके पार्श्वे किमेत्य स्थितः वसन्तीमिव ॥
मणिं सुराणां तनुमत्समीहितं प्रदित्सयेव त्रिदिवादुपागतम् ।। स तत्र चिन्तामणिपार्श्वतीर्थपं महामहेन प्रतितस्थिवान्प्रभुः ॥ १५२॥ स प्रभुहीरविजयसूरिस्तत्रागरानगरे चिन्तामणिः इति नामानं पार्श्व एव तीर्थपस्तीर्थनाधस्तं महामहेनाधिकोत्सवेन प्रतितस्थिवान् । उत्प्रेक्ष्यते--तनुमतां जगजनानां समीहितानां मनसां सम्यकामितानां प्रदित्सया प्रदातुमिच्छया त्रिदिवाद्देवलोकादिह भूमण्डले उपागतं संप्राप्तं सुराणां मणिं चिन्तारत्नमिव ॥
स उग्रसेनाद्यपुरात्फतेपुरं यशस्करं स्वस्य विभुळभूषयत् । इवान्यराशेः शशिसौधमुच्चतापदप्रदं चित्रशिखण्डिनन्दनः ॥ १५३ ॥ स विभुहीरसूरिः खस्यात्मनो यशस्कर कीर्तिविधायकं पुनरित्यध्याहार्यम् । उग्रसेन इति पदमाद्यं प्रथमं यस्य तादृशात्पुरात् ।आगरादित्यर्थः । फतेपुरं साहिनगरं व्यभूषयदलंकरोति स्म। श्रीको जग्मिवानित्यर्थः । क इव । चित्रशिखण्डिनन्दन इव । यथा बृह