________________
१४ सर्गः] हीरसौभाग्यम् ।
६९९ तरीव वाघौं तमसीव शारदारविन्दिनीशः सरसीव धन्वनि । दरिद्रतायामिव शेवधिर्मया कलौ जिनेन्दो त्वमलम्भि दुर्लभः ॥१७॥ हे त्रिलोक्या जयत्रयस्य जनानां सुरासुरनराणां कामितानां मनोमिलाषाणां पूरणे प्रदाने कल्पपादप सुरतरो। पुनहे पुनर्भवश्रिया मोक्षलक्षम्या साधं परिरम्मे गाढालिङ्गने लोलुप अतिशयेन लोल चञ्चल हे नेम, त्वं जय सर्वोत्कर्षेण वर्तख । पुनहें प्रमोदा आनन्दाः । यद्दर्शनात्पुत्रकलत्रमित्रधनधान्यराज्यैश्वर्यादयः सर्वेऽप्यानन्दकारिणः पदार्थाः प्रादुर्भवेयुः, तस्मात्तेऽपि प्रमोदा एवोच्यन्ते । तत्र च बहुत्वम् । प्रमोदा एवाङ्क: प्ररोहास्तेषां कोटयस्तेषां वृद्धिकरणे इत्यर्थः । वारिमुक वार्षिकवारिवाह । पुनहें प्रभया नीलोत्पलदलदयामलदेहदीप्त्या भत्सिता तिरस्कृता नीलरनानां हरिन्मणीनां रुक्कान्तिर्येन तादृक् शिवानन्दन, त्वं जय। हे जिनेन्दो हे नेमिनाथ, मया कली कलियुगे पञ्चमे अरके दुःखेन महाकष्टेन कृत्वा लभ्यते इति दुर्लभः दुःप्रापस्त्वमलम्भि प्राप्तः । केव।.तरीद । यथा प्रलयकालोदामदावानलज्वालायमाना माननिदाघसमयोद्भवन्मध्यंदिनदीप्तदिनकरघोरधर्मरुचिचयसंतापितालानीभूतसिकतभूमण्डलमरुस्थले सच्छायपत्रच्छन्नानेककारखरकोटिशिशिरीकृतसलिलशालिमहापद्मसरोवरं लभ्यते । पुनः क इव । शेवधिरिव । यथा दुःखावस्थायां निधानमासाद्यते ॥
तमित्यभिष्टुत्य हृदा दधन्मुदं चकार पञ्चाङ्गनतिं यतीशिता । विचक्षुरेतत्किमु पञ्चमी गति. दिश प्रभो पञ्चमकेरकेऽपि मे ॥ १८॥ यतीशिता मूरिः तं नेमिनाथमिति पूर्वोत्तप्रकारेणाभिष्ट्रय स्तुत्वा हृदा मनसा कृत्वा मुदमाह्लादं दधद्धारयन् सन् पञ्च अङ्गानि प्रकृतानि यत्र सा पञ्चासा । पञ्चानामबानां समाहारो वा इति पञ्चाङ्गी । द्वौ जान द्वौ करौ एकं शिरः इति पञ्चासी। तथा भूः स्पृश्यते इति पश्चाङ्गनतिं चकार कृतवान् । उत्प्रेक्ष्यते-एतदुच्यमानं जिननेमिनाथं प्रति विवक्षुः किमु वक्तुमिच्छुरिव । एतत्किम् । हे प्रभो, मे मम पश्चमकेरके कलिकालेऽपि पञ्चमी नरकतिर्यमनुष्यदेवगतिभ्य उपरितनी मुक्तिलक्षणां पश्चानां संख्यापूरणी गति दिश प्रदेहि । चतुर्थारके तु तव मुक्तिदातृत्वमस्त्येव । परं पञ्चमे त्वरके मुक्तिप्राप्तेरभावात्तस्याः प्रार्थनाया उत्प्रेक्षा ॥ मुनीन्दुना शौर्यपुरे पदाम्बुजैविभूष्य दृष्टी इव तत्पुरश्रिया। वृषाङ्कनेमिप्रतिमे पुरातने प्रतिष्ठते तत्र सनेमिपादुके ॥ १४९॥ मुनीन्दुना हीरसूरिचन्द्रेण तत्र शौर्यपुरे पुरातने जीर्ण पूर्व केनापि कारते न परं प्रतिष्ठापिते कथंचिदप्रतिष्टिते एव स्थिते वृषाङ्कस्य श्रीऋषभदेवस्य नेमेररिष्टनेमिनाथस्य प्रतिमे मूर्ती प्रतिष्टते अअनशलाक्यादिकरणेन स्थापिते । किं च श्रीहीरसीहविमळगणिपितामहसोहिलसंघपतिकारिते इति मूलशौर्यपुरलोके किंवदन्ती इति । उत्प्रेक्ष्यतेतत्पुरश्रिया शौर्यपुरलक्ष्म्या दृष्टी नेत्रे इव। किंभूते प्रतिमे। सहनेमेः शवेयस्य पादुकाभ्यां