________________
६९४
काव्यमाला।
पेन वा जितोऽभिभूतः अङ्गजः कंदर्पः । 'अङ्गजः पुत्रकामयोः' इत्यनेकार्थः । तथा 'कमनः कलाकेलिरनन्यजोऽङ्गजः' इति हैम्याम् । उत्प्रेक्ष्यते-हिया मन्दाक्षेणेव अनझे मुक्तकाययष्टिरजनि संजात इव । पुनर्यस्य परमेष्ठिन: अङ्गरुचा शरीरस्य मरकतमणिमहणकान्त्या निर्जितैः परिभूतैः नीलनीरजैरिन्दीवरैः दुःखात्पुष्करे तीर्थविशेषजले च । 'पुष्करं तु जले व्योम्नि तीर्थे कुण्डे च' इत्यनेकार्थः । तपः अभाजि तपस्तप्यते इव । निर्जितो हि द्विधा तपस्यति पराभवदुःखोद्विग्नो वा तत्तुल्यताद्याप्तये वा ॥ .
रवेण वाह्याहितजित्त्वरं तरोऽप्यभिप्रपन्नः पुनरान्तरद्विषाम् । .. विघातशक्तिं स्पृहयन्त यत्पदं हरेस्त्रिरेखोऽकमिषान्निषेवते ॥ १४४ ॥ हरेविष्णोत्रिरेख: पाश्चजन्यनामा शङ्खः अङ्कमिषाल्लाञ्छनच्छलात् यत्पदं नेमिनाथचरणं निषेवते । उत्प्रेक्ष्यते-रवेण निजशब्देन वाह्या भूमिनभःसंचारिणः प्रत्यक्षा ये अहिताः प्रतिपक्षास्तेषां जित्त्वरं जयनशीलं तरो बलं अभिप्रपन्नः संप्राप्तोऽपि । यदुकम्-'अम्भोधेरेव जाता जगति कति न ते हन्त सन्तीह शङ्खा यान्बिभ्राणा भ्रमन्ति प्रतिभवनममी भिक्षवो जीवनाय । एकः श्रीपाञ्चजन्यो हरिकरकमलकोडहंसायमानो यस्य ध्वानरमानैरसुरसुरवधूवर्गगां गलन्ति ॥' इति । पुनरान्तराणामन्तरङ्गानामनन्तकालादात्मना प्रतिबद्धानां द्विषां कर्मशत्रूणां विघातशक्तापादनसामर्थ्यस्य स्पृहया वाञ्छयेव सेवते ॥
अशीलि शीलेन जितेन येन किं ह्रिया कुमारेण गिरेरधित्यका । प्रभुर्जिनं तं यदुवंशभास्करोदयोदयक्षोणिधरं दृशा पपौ ॥ १४५॥
येन भगवता शीलेन खब्रह्मचर्येण जितेन तिरस्कृतेन कुमारेण खामिकार्तिकेन । 'पाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः' इति हैम्याम् । उत्प्रेक्ष्यते-हिया लज्जया गिरेगन्धमादनाभिधानभूधरस्याधित्यका ऊर्श्वभूमिः शृंङ्गमशीलि सेवितम् । तत्र गत्वा स्थित इत्यर्थः । 'सुगन्धिगन्धमादनाधिवासिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि' इति चम्पूकथायाम् । तथा पित्रोरपेक्षया तु कैलासाचलचूलिकायां स्थानम् । तथा 'स्कन्दो मन्दमतिश्चकार न करस्पर्श श्रियाः शङ्कितः' इति खण्डप्रशस्तौ । प्रभुः सूरिस्तं पूर्वव्यावर्णितं जिनं नेमिनाथं दृशा नेत्रेण पपौ सादरं पश्यति स्म । किंभूतः । यदूनां यादवानां वंशोऽन्ववायः स एव भास्करः सूर्यस्तस्योदयार्थमुद्गमनाय उदयक्षोणिधरः। पूर्वपर्वत इत्यर्थः ॥ चतुर्भिः कलापकम् । नेमिनाथवर्णनम् ॥
जय त्रिलोकीजनकल्पपादप पुनर्भवश्रीपरिरम्भलोलुप । जय प्रमोदाङ्कुरकोटिवारिमुक् जय प्रभाभसितनीलरत्नरुक् ॥ १४६ ॥
१. 'विघातशक्तेः स्पृहया वाञ्छयेव सेवते' इति टीकादर्शनात् 'विघातशक्तः स्पृहयेव यत्पदम्' इति पाठो भवेत्.