________________
१४ सर्गः] हीरसौभाग्यम् । १९३ तं नेमिनाथप्रासादं न्यभालयद्विलोकते स्म ॥ पञ्चभिः कुलकम् ॥ यमुनादर्णनम् । इति सूरेः शौर्यपुरागमनम् ॥
स तूररावैः कुलशैलकंदरोदरप्रसर्पत्प्रतिनादमेदुरैः। निनाय नमेर्वसतिं प्रदक्षिणां महोदयाम्भोनिधिनन्दनामिव ॥ १४० ॥ स हीरसूरिः तूररावैरनेकवादित्रनिर्घोषैः सार्धं नेमेः श्रीअरिष्टनेमिनाथस्य वसतिं प्रासादं त्रिर्वारं भ्रमणीरूपां परितः प्रदक्षिणां निनाय प्रापयति स्म । त्रिः प्रदक्षिणीकरोति स्मेत्यर्थः । किंभूतैः तूररावैः । कुलशैलाः मन्दरमेरुकैलासहिमाचलप्रमुखाः सप्त कुलपर्वतास्तेषां कंदराणां गुहानामुदरेषु मध्येषु प्रसर्पन्तः प्रवर्तमानाः प्रसरन्तो वा ये प्रतिनादाः प्रतिशब्दाः 'पडच्छन्दा' इति प्रसिद्धाः तैमदुरैः सान्द्रैः पुष्टीभूतैः । उत्प्रेक्ष्यते-महोदयो महानतिशायी अभ्युदयो विशिष्टवैभवप्रारम्भः स एवाम्भोनिधिनन्दनां लक्ष्मी प्रदक्षिणां प्रकर्षेणातिशयेन दक्षिणां खानुकूलां निजानुरागिणीमिव निनाय कृतवान् ॥
निजां तनूजां धरिणीप्रचारिणीमिवाभ्रकेतौ मिलितुं समीयुपि । विवेश तस्मिन्छमिनां शतक्रतुः शिवासुतस्यायतने हिरण्मये ॥१४१॥ शमिनां शतक्रतुर्वाचंयमवासवः तस्मिन् प्रह्लादपूर्व पूर्वमेव दृष्टे शिवायाः समुद्रविजयराजजायायाः सुतस्य नेमिनाथस्य आयतने प्रासादे विवेश प्रविष्टवान् । किंभूते । हिरण्मये खर्ण निर्मिते सुवर्णप्रधाने । उत्प्रेक्ष्यते-धरिण्यां भूमीमण्डले प्रकर्षेण चरति प्रसरति इत्येवंशीलां निजामात्मीयां तनूजां पुत्री यमुनानानी मिलितुं सुतात्वेन स्नेहसंबन्धान्मिलनार्थ समागते गगनाङ्गणारक्षोणीचक्रे संप्राप्ते अभ्रकेतौ नभाष्कतेन सूर्य इव । 'हरिः शुचीनौ गगनाध्वगाध्वगौ' इति हैम्याम् ॥ ___ जनार्दनान्दोलनकेलयेऽभवत्प्रलम्बदोलेव यदीयदोलता ।
य उग्रसेनस्य सुतां प्रभु हौ पतिस्तमीनामरविन्दिनीमिव ॥ १४२ ॥
प्रभुहोरसूरिः नेमि ददर्श इत्यग्रे वक्ष्यते । इति संबन्धः । यच्छब्देन तद्वर्णन-माह-यदीयदोलता श्रीनेमिनाथसंबन्धिनी दक्षिणबाहुवल्ली जनार्दनस्य नारायणस्य आन्दोलनस्य प्रेङ्खोलनस्य केलये क्रीडायै प्रलम्बा अतिव्यायता दोला प्रेक्षा इवाभवत् । पुनर्यो भगवान् उग्रसेनस्य भोजकवृष्णेः सुतस्योग्रसेननृपतेः सुतां नन्दनां राजीमती जही तत्याज न परिणिन्ये। क इव । पतिरिव । यथा तमीनां पतिः रजनीदयितश्चन्द्रमाः अरविन्दिनी कमलिनी जहाति ॥
तनुश्रिया येन निजौजसा पुनर्जितो ह्रियानङ्ग इवाङ्गजोऽजनि । यदङ्गरुङ्गिर्जितनीलनीरजैरभाजि दुःखादिव पुष्करे तपः॥ १४३ ॥ पुनर्येन नेमिनाथेन तनुश्रिया शरीरशोभया पुनर्निजौजसा खबलेन आत्मीयप्रता