________________
काव्यमाला।
वियोगिनां वैराग्यं दुःखोच्छेदकरणं युक्तमेव । तीर्थमेदिनी श्रीमन्नेमिनाथजन्मकल्या. णकभूमी निषेवमानां भान्तीमिव ॥
जलावगाहागतदन्तिपङ्क्तिभिर्निलीनशैलाब्धितुलावहामिव । भुजामिवाम्भोजमुखीं मृणालिकां हिरण्यबाहुं दधतीं च नाभिवत् १३७ पुनरुत्प्रेक्ष्यते-जलावगाहाथै सूर्यातपातितप्तवपुस्तया वा सातेन वा तरुणकरिणीभिः समं सलिलकेलिकरणायागताभिः समेताभिर्दन्तिपतिभिर्गजराजीभिः कृत्वा निलीना वज्रपाणिभयात्प्रणश्यात्यगाधपानीयप्रविष्टाः शैलाः पर्वता यत्र तादृशस्याब्धेः समुद्रस्य तुलायाः साम्यस्य वहां धारिणीमिव । पुनरुत्प्रेक्ष्यते-किं कुर्वतीम् ।दधतीं बिभ्रतीम् । काम् । मृणालिकां पद्मनालिकाम् । कामिव । अम्भोजमुखीमिव । यथा पद्मवदना स्त्री कोमलां भुजां बाहुलतां धत्ते । च पुनः स्त्रीनाभिवत्तुन्दकुपिकामिव हिरण्यबाहुं शोणं हृदं दधतीम्। अथ चन्द्रमाः । अम्भोज कमलमेव मुखं वदनं यस्याः ॥
अमुं नमन्तीमिव वीचिसंचयैर्विभावयन्ती शफरीक्षणैरिव । . अभिष्टुवन्तीमिव विष्किरकणै लत्कजैर्नृत्यमिव प्रकुर्वतीम् ॥ १३८ ॥ पुनरुत्प्रेक्ष्यते-वीचिसंचयैः उन्नमन्नमद्भिः परिस्फुरत्तरङ्गगणैः कृत्वा अमुं सूरीन्द्र नमन्तीमिव कल्लोलमालानामुन्नम्य नम्रीभवनेन प्रणाम सृजन्तीमिव । पुनरुत्प्रेक्ष्यतेशफर्यो मत्स्या एव ईक्षणानि । अथ वा 'मीनलोचनैः' इति पाठे मीना एव लोचनानि नय. नानि तैर्विभावयन्तीमिव । सूरीन्द्र निर्निमेषं निरीक्ष्यमाणामिव । तथा 'विस्फुरच्छफरीनेत्रा तत्रापि रणसाक्षिणी। अस्ति ज्योत्स्नासपत्नाम्बुरियमेव सरखती ॥' इति पाण्डवचरित्रे । पुनरुत्प्रेक्ष्यते--विष्किराणां जलचारिणां हंससारसक्रौञ्चादीनां पानीयपानागतानामपरेषां वा पक्षिणां क्वणैः शब्दैः कृत्वा मुनीन्द्रममुमभिष्टवन्तीमिव सूरेः स्तुति वि. दधतीमिव । पुनरुत्प्रेक्ष्यते-लुलन्ति प्रचलत्कल्लोलैस्तरलीभवन्ति यानि कजानि कमलानि तेरस्य पुरो नृत्यं ताण्डवं कुर्वतीमिव ॥ निखेलियोषास्तनचन्दनद्रवैः सरिद्वरासंवलितप्लवामिव । क्रमात्स तत्राप्यवतीर्य सूर्यजां न्यभालयन्नेमिनिकेतनं पुरः ॥ १३९ ।। पुनरुत्प्रेक्ष्यते-नितरां खखकान्तेः समं सखीभिः सार्धं वा खेलन्ति जलकीडां कुर्वन्तीत्येवंशीला निखेलिन्यो या योषा विविधभूचरखेचरचञ्चललोचनास्तासां स्तनानां कुचान्तरकुचोपरिविरचितविचित्रपत्रवल्लीविलेपनादिसत्कसलिलसंयोगगलच्चन्दनद्रवैः श्रीखण्डवारसैः कृत्वा सरिद्वरया गङ्गया संवलितो मिश्रीभूतः- प्लवः पयःपूरो यस्यास्तादृशीमिव । तत्रापि गङ्गायमुनाप्रवाहद्वयकलितामिव स प्रभुहीरसूरिः क्रमात्संघलोकशिघ्यायुत्तरणानुपूर्व्या रपडीपावें पूर्वव्यावर्णितखरूपां सूर्यजां मार्तण्डनन्दनां यमुनामवतीर्योल्लङ्घय पुरोऽग्रे नेमिनिकेतनम्।लोकरूढ्या यत्र स्थाने श्रीनेमेर्जन्मकल्याणकमजायत तस्मिन्नेव पुण्यपृथ्वीप्रदेशे प्रासादः कारितोऽस्तीति श्रूयते । पश्चाजिनो वेद