________________
६९८
काव्यमाला। सुधारसद्वानमृतनिःस्पन्दान् च श्रवःपुटैः कर्णपुटकैः श्रवणनामदुन्दुकैः पिबन्नाखादयन् सादरं शृण्वन् ॥
मघाभुवेवासुरशीतभानुना विधाय गोष्ठी सदसद्विचारणा। मुनीश्वरेणाम्बुधिनेमिभानुना स्थिरीकृतार्हन्मतसंप्रधारणा ॥ १५८॥ मुनीश्वरेण सूरीन्द्रेण सच्च असच्च सदसती तयोविचारणा इदं सत् इदमागमविरुद्ध मिदं च लोकविरुद्धमिदमुभयाभिमतमिति विमर्शो यस्यां तादृशी अर्हन्मतसंप्रधारणा जिनशासनसमर्थना सर्वेष्वपि शासनेषु विचार्यमाणं सर्वकोटिविशुद्धं जिनशासनमेव दृश्यते इति संप्रधारणा स्थिरीकृता । सत्या चक्रे इत्यर्थः । किं कृत्वा । मघाभुवेव - भार्गवेनेव असुरशीतभानुना दैत्येन्द्रेणेव अम्बुधिनेमिभानुना जलधिमेखलाभास्करेग साहिना साध गोष्ठी धर्मतत्त्वविचारवार्ता विधाय कृत्वा ॥
तदिष्टगोष्ठीसमये महीहरेर्हृदन्तरानन्दरसः स कोऽप्यभूत्। गिरां हि पारेऽजनि यो गिरां पतेर्न यत्र काव्यं न च काव्यचातुरी १९९
सैव साहिरिद्वन्द्वसंबन्धिनी इष्टा मनसोऽभिप्रेता साहिहृदयंगमा गोष्टी खतन्त्रवार्ता तस्याः समये प्रस्तावे स कोऽप्यद्वैताश्चर्यकारी वाचामगोचरो महीहरेभूमीन्द्रस्य हृदन्तरा मनोमध्ये आनन्दरसः प्रह्लादाखादः । 'रसः खादे जले वीर्ये शृङ्गारादौ' इत्यने. कार्थः । अभूद्वभूव । य आनन्दरसो गिरां पतेः सुराचार्यस्य हि निश्चितं गिरा पारे वाचां परतीरवी वक्तुमशक्योऽजनि संजायते स्म । 'गिरां हि. पारे निषधेन्द्रवैभवम्' इति नैषधे । च पुनयंत्रानन्दरसे काव्यस्य शुक्रस्य काव्यानां कवित्वानी चातुरी नाजनि वाचस्पतिर्वाचा वक्तुं न शक्नोति । शुक्रोऽपि काव्यरचना रचयितुं नालं भवतीत्यर्थः ॥ इति सूरिणा समं साहेर्द्वितीयवारं गोष्ठी ॥ ततः प्रदित्सुर्गुरवे स किंचनात्मनो घनो भूभवनाय नीरवत् । प्रणीतवान्सप्रणयं गिरां गृहं मुखारविन्दं वसुधावधूवरः ॥ १६ ॥
ततो गोष्ठीकरणोद्भूतानन्दरसानन्तरं सोऽकब्बर एव वसुधावधूवरः भूमीभामिनीभर्ता सप्रणयं सस्नेहं याच्यासहितं वा।'प्रणयः स्नेहयाच्नयोः' इत्यनेकार्थः। यथा स्यातथा मुखारविन्दं वदनकमलं गिरां वाचां गृहं वासस्थानं प्रणीतवान् चकार । नृपः किं कर्तुमिच्छुः । गुरवे हीरविजयसूरये आत्मनः खस्य किंचन आत्मीयं वस्तु किमपि प्रदित्सुः प्रदातुमिच्छुः । किंवत् । नीरवत् । यथा घनो धाराधरो भूभवनाय पृथ्वीलोकाय जलं दातुमिच्छति तथा अकब्बरोऽपि प्रभवे वाजिवारणादि दातुमुत्कण्ठितो बभूवेत्यर्थः ॥
परश्शताः कौतुकिना पयोनिधिं प्रमथ्य कृष्टा इव जमुना पुनः । स्फुरन्ति तेऽमी मम मत्तकुम्भिनः प्रभोऽप्रमूवल्लभलक्ष्मिलम्भिनः १६१