________________
६८८
काव्यमाला। घयोः । परमात्मनि लक्ष्ये च' इत्यनेकार्थः । तादृशैरमरैः । 'चतुर्विधामर्त्य निकायकोटिजघन्यभावादपि पार्श्वदेशे' इति हैम्याम् । परिवारितः प्रतिष्ठते । पथीत्यध्याहारः ॥
निपीयमानो नयनैगीदृशामिवाच॑मानो विकचाम्बुजन्मभिः । प्रणूयमानः कविभिनवस्तवैर्जगत्पृण-वीर्यगुणैश्च वास्तवैः ॥ १२४ ॥ मृगारिरद्रेरिव कंदरोदरे कृशोदरीणां मनसीव मन्मथः । अमर्त्यदन्ती चतुरे हरेरिव व्रतिक्षितीन्द्रो वसतौ विवेश ॥ १२५ ॥ स व्रतिक्षितीन्द्रः हीरविजयसूरिराजो वसती उपाश्रये विवेश प्रविष्टवान् । क इव । मृगारिरिव । यथा कण्ठीरवः अदेः पर्वतस्य कंदरोदरे गुहामध्ये प्रविशति । पुनः क इव । मन्मथ इव । यथा मनोभवः कृशोदरीणां तरुणीनां मनसि चित्ते प्रविशति । पुनः क इव । अमर्त्यदन्तीव । यथा सुरगज ऐरावणगजः हरेरिन्द्रस्य चतुरे हस्तिशालायां प्रविशति । 'हस्तिशाला तु चत्वरम्', 'वाजिशाला तु मन्दुरा' इति हैम्याम् । स किं क्रियमाणः । मृगीदृशां सारङ्गीलोचनानाम् । 'सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतम्' इत्यादि समवसरणवर्णने । नयनै त्रैर्निपीयमानः सादरं निरीक्ष्यमाणः । उत्प्रेक्ष्यते-विकचाम्बुजन्मभिरुन्निन्नीलोत्पत्तिरिवाच॑मानः पूज्यमान इव । पुनः किं क्रियमाणः । कविभिः काव्यकर्तृभिः पण्डितैर्वा नवस्तवैः सद्यस्कैः काव्यैः स्तुतिभिवा प्रणयमानो वर्ण्यमानः स्तूयमानः । स किं कुर्वन् । वास्तवः । स्वाभाविक: जिनवजन्मका. लोत्पन्नैः खीयगुणैः कृत्वा जगद्विश्वलोकं पृणन् आनन्दयन् ॥ इति सूरेः समहं वसतावागमनम् ॥
प्रतापदेवीतनयस्तदुत्सवे समर्थयन्नथिततेमनोरथान् । ' दरिद्रमुद्रामभिनत्तमां तटीं प्रवाहवत्प्रावृषि वार्धियोषितः ॥ १२६ ॥ तस्मिन् सूरेरुपाश्रयसमागमनमहामहे प्रतापदेवीतनयः स्थानसिंहः अर्थिततेर्याचकश्र. मनोरथानभिलाषान् समर्थयन् दरिद्रमुद्रां दुःखावस्थामभिनत्तमामतिशयेन भिनत्ति स्म । किंवत् । प्रवाहवत् । यथा प्रापि बहुस लिलभर निर्भरातिसमुन्नमन निरन्तरनिष्पतन्नीरधाराधोरणीबन्धुरधाराधरसमये वाधियोषितः समुद्रमहिलाया नद्याः प्रवाहः पानीयपूरः तटी सरिदुभयसमीपोच्चभाम् । तीरभित्तिमित्यर्थः । भिनत्ति पाटयति ॥
तडिद्वता तस्य निजातिपातुकां समीक्ष्य सर्वार्थिपु कामवर्पिताम्। शितीकृतास्येन पदं मुरद्विषो निषेव्यते तत्तुलनाकृते किमु ।। १२७ ॥
तडिद्वता विद्युद्वनितानुषगभाजा मेघेन तत्तुलनाकृते तदवसरदानशौण्डीभवत्स्थानसिंहसमानताप्राप्तये । उत्प्रेक्ष्यते-मुरद्विषः पदं निषेव्यते विष्णुपदं व्योम समुपास्यते इव । किंभूतेन तडिद्वता । शितीकृतं कृष्णं विहितमास्यं वदनं येन । किं कृत्वा । तत्य थानसिंहस्य निजमात्मानमतिपतति अतिक्रामतीत्येवंशीलां निजातिपातुकां काम