________________
१४ सर्गः हीरसौभाग्यम् । मतिशयेन कामानभिलाषान् वर्षति संपूरयति इत्येवंशील: कामवर्षी तस्य भावस्तत्तां 'समीक्ष्य दृष्ट्वा । 'सरूपाणामेकशेषः-' इत्येककामशब्दलोपः ॥ इति थानसिंहकृतसू. रिसमागममहोत्सवः ॥
स्वकोशरक्षाधिकृतस्य भूमिमानिवाखिलक्षोणिजयार्जितैपनैः । विधाय कोशं नृपदत्तपुस्तकैः स स्थानसिंहस्य वशंवदं व्यधात् ॥१२८॥ स हीरविजयसूरिः नृपेणाकब्बरसाहिना दत्तैरुपदीकृतैः पुस्तकैः कोशं भाण्डागारं विधाय स्वयं निष्पाद्य स्थानसिंहस्य वशंवदमायत्तं व्यधाच्चके। क इव । भूमिमानिव । यथा पृथ्वीपाल: अखिलायाः समस्तायाः क्षोणेः पृथिव्या जयेन वायत्तीकरणेनार्जितैः सं. चितैर्धनैः द्रविणैः । इदं तु साधितत्रिखण्डवसुधामण्डलस्यैव मण्डलीकस्य राजाधिराजस्य घटते । कोशं निर्माय खस्यात्मनः कोशस्य भाण्डागारस्य रक्षायामधिकृतस्याहतस्य सम्यग् नीतिमत्सत्यवाक् खामिभक्ततया अङ्गीकृतस्य भाण्डागारिणो वशं विधत्ते ॥ इति पुस्तककोशः ॥
क्रमान्महादेशमिवावनीशितुर्निदेशमासाद्य पयोधरोदये। फतेपुरात्स प्रभुरागरापुरं पवित्रयामास पदाम्बुजन्मभिः ॥ १२९ ॥ -स प्रभुः सूरिः पयोधरोदये वर्षाकालप्रारम्भ क्रमादनुक्रमतः फतेपुरात् श्रीकरीनगरात् उग्रसेनपुरापरपर्यायमागरा इति नाम पुरं पदाम्बुजन्मभिः चरणकमलैः कृत्वा पवित्रयामास पावनीकरोति स्म। किं कृत्वा । क्रमात्कियद्भिर्वासरैरवनीशितुरकब्बरसाहेनिदेशमाज्ञामासाद्य प्राप्य। कमिव । महादेशमिव । यथा कश्चिद्राजरअकः राज्ञः सकाशा. महान्तं जनपदमासादयति लभते ॥ इत्यागरानगरे गमनम् ॥ · न राजहंसान्वचन प्रवासयन्वियोगिनोऽपि प्रणयंश्च निर्वृतान् । - न दुर्दिनं क्वापि सृजंस्तमोद्विषं न च द्विषन्निर्दलयञ्जलोदयम् ॥ १३० ॥
मनोभवं वाभिभवन्गुरोर्महो न निढुवानः स्थिरतां पुनर्वहन् । '.. अभूदपूर्वः प्रभुरम्बुदः पुरे जिनक्रमोपासनकृद्दिवानिशम् ॥ १३१ ॥ . प्रभुहीरसूरिः पुरे तत्रागरानगरे अपूर्वोऽसाधारणोऽम्बुदो मेघोऽभूद्धभूव । किं कुर्वन् । राजसु नृपेषु हंसाः प्रधानास्तान प्रवासयन् न पीडयन् । आनन्दयनित्यर्थः । 'संहरति निर्दलयति निर्वासयति प्रवासयति' इति क्रियाकलापे हिंसाः क्रियाः । यदि वा नृपश्रेष्ठान् प्रकर्षणातिशयेन वासयन् दयादिधर्मतत्त्वे स्थापयन् वासं कारयन् । अय वा कृपाधर्मसुगन्धवस्तुसौरभेण न सुगन्धीकुर्वन्नपि वासयन्नेव । नकारः काकर्थवाची । मेघस्तु वर्षाकाले हंसान्मानसं प्रति प्रस्थापयति । यथा-'प्रोषितकलहं. सवयसि' इति चम्पूकथायाम् । 'प्रोषिता मानसं प्रस्थापिता हंसपक्षिणो येन' इति तदृत्तिः । पुनः किं विशिष्टः । विशिष्टः मनोवाकायसंबन्धी अथ वा यमाद्यङ्गयुक्तः प्रश.