SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ६८६. काव्यमाला। वयं वसतो व्रजाम इत्युक्त्वा पुनरस्य साहेरात्मना खेन धर्माशिषं धर्मलामं प्रदाय दत्त्वा ॥ इति साहिना गोष्ठीकरणानन्तरं सभाबहिः पादावधारणं प्रभोः ॥ तदा चकोरायितमर्णवायितं रथाङ्गितं कैश्चन कैरवायितम् । स्रवन्मुदत्रैश्च विधूपलायितं विलोक्य यद्वक्रमृगाङ्कमङ्गिभिः ॥ ११९ ॥ तदा तस्मिन्नकब्बरसभाया बहिः प्रभोरागमनावसरे यस्य गुरोर्वकं मुखमेव मृगाईं चन्द्रं विलोक्य कैश्चनाङ्गिभिर्जनश्चकोरायितं सूरिमुखलावण्यामृतपानकारिभिर्योत्स्नाप्रियैरिवाचरितम् । पुनः कैश्चनार्णवायितं प्रोल्लसितप्रह्लादकल्लोलपटलीप्रवर्धमानाङ्गरोमाश्चञ्चलशालिशफारतसमुद्ररिवाचरितम् । समुद्रा हि चन्द्रमालोक्य प्रवर्धन्ते इति जगत्खभावः । कल्पसूत्रेऽपि क्षीरसमुद्रे कल्लोलोर्मयोऽपि दृश्यन्ते । तथा 'वेलावनीवनततिप्रतिबिम्बचुम्बिकिमीरितोमिचयचारिमचापलाभ्याम्' इति नैषधे क्षीरसमुद्रवर्णने । पुन: कैश्चन रथानितम् । तादृशं जगजनैरभिनन्द्यमानं प्रभहृदयमालोक्य । हृदयेऽभ्यसूयाद्वैतदुःखं दधानः कुपाक्षिकैः चक्रवाकैरिवाचरितम् । चन्द्रोदये हि चक्रवाकानां दुःखमित्यपि जगत्वभावः । यदुत्तम्-'कथय किमपि दृष्टं स्थानमत्र श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । इति विहगसमूहं नित्यमापृच्छयमानो रजनिविरहभीतश्चक्रवाको वराकः ॥ इति चक्रवाकाष्टके । पुनः कैश्चित्कैरवायितं विकसितनयनैः कुमुदैरिवाचरितम् । पुनः कैश्चन । स्रवन्ति निःसरन्ति यानि हर्षाणि प्रमोदबाष्पाणि तैः कृत्वा विधूपलायितं चन्द्रकान्तरत्नैरिवाचरितम् । चन्द्रोदये हि चन्द्रकान्तमणयो हि अमृतं क्षीरं वमन्तीति लोकरूढिः कविसमयश्च । तथा 'यदंगारघटादृकुटिमस्रवदिन्दूपलतुन्दिलापया' इति नैषधेऽपि ॥ तदाभवद्भमिनभःप्रचारिणां जयारवो भूपुरहूतवर्मनोः । समीक्ष्य सूरेमहिमानमुत्तमं हृदा दधाने इव रोदसी स्तुतः ॥१२० ॥ तदा तस्मिन्नवसरे भूर्भूमी पुरहूतवर्त्म नभोङ्गणः । 'बहुवगाढसुरेश्वराध्व' इति नैषधे । 'सुरेश्वरस्य शक्रस्य अध्वा मार्गः' इति तदर्थः । तयोर्विषये भूमिनभःप्रचारिणां भूचराणां समस्तमानवानां खेचराणामदृश्यान्तरिक्षचारिणां सिद्धगन्धर्वविद्याधराणां जिनशासनाधिष्ठायकसुराणां वा यानानां विविधगजवाजिशिबिकासुखासनस्पन्दानाम् । उपर्यारोहकत्वेनान्तरिक्षचारिता । तेषामुच्चैःस्थितत्वेन खेचराणां नराणां जयारवः जयजयेति निनादः अभवत्संजायते स्म । उत्प्रेक्ष्यते-सूरेर्मुनीन्दोमहिमानं मा. हात्म्यं समीक्ष्य सम्यगवलोक्य हृदा मानसेन कृत्वा अद्भुतमाश्चर्यं दधाने विभ्राणे रोदसी भूमीनभसी दिवस्पृथिव्यौ वा स्तुतः स्तुतिं कुरुतः ॥ मिलत्पयोवाहपयोधिर्जितैरिवाहतातोद्यनिनादसान्द्रितैः। . प्रमोदमाद्यत्तुमुलैस्तनृमतां जगत्तदा शब्दमयं स्म जायते ॥ १२१ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy