________________
१४ सर्गः]
हीरसौभाग्यम् ।
रुष्काः प्रस्थानालाभपुरीयादयस्तथा मुद्गलाः काबिलखुरासानादिजनपदजन्मानो • म्लेच्छास्तेषामवनीधनो राजा थानसिंहं समाहूय आकार्य गिरं वाणी गृहीतवान् जल्पति स्म । किं कृत्वा । सद्गुरोः श्रीहीरविजयमूरिसकाशाद्दयान्वितं कृपाकलितं धर्ममवाप्य लब्ध्वा । कमिव । कृष्णलताइविद्रममिव । यथा कश्चिदर्णवाजलनिधेः कृष्णलता 'कालीवेलि' इति लोके प्रसिद्धा । सा अङ्के हृदये मध्ये यस्य तादृशं प्रवालं लभते ॥
मदीयतूर्यादिनिनादसादरं जगज्जनानन्दिमहेन मेदुरम् । स्वमालयं लम्भय साधुसिन्धुरं तटं शशीवामृतवाहिनीवरम् ॥ ११६ ॥ हे थानसिंह, त्वं साधुसिन्धुरं श्रीगुरुं मदीयानि तूर्याणि मम संबन्धीनि वादित्राणि तेषां निनादैघोषः सहादरैवर्तन्ते एवं स्यात्तथा आलयं खावासमुपाश्रयं वा लम्भय प्रापय । क इव । शशीव । यथा चन्द्रमा अमृतवाहिनीवरं सुधासिन्धुधवं क्षीरसमुद्रं तटं वेलाउनी लम्भयति । ण्यन्तात्कर्मद्वयम् । पुनः कथम् । जगतां भुवनानां जनान् मुरासुरनरानानन्दयति प्रमोदयतीत्येवंशीलेन महेनोत्सवेन कृत्वा मेदुरं स्यादेवम् ॥
प्रमाणमाज्ञा जंगतीवसन्तिका सृजामि निःशेषमिदं नियोगिवत् । पुरा मदीहा पुनरीशंशासनं पयस्तदेतत्सितया करम्बितम् ॥ ११७ ॥ हे प्रभो, जगतीवसन्तिका समस्तक्षोणीचक्रशिरःशेखरायमाणा। 'आपीडशेखरोत्तंसा वतंसाः शिरस: जि' इति हैम्याम् । 'विदर्भसुर्धश्रवणावतंसिका' इति नैषधे । आज्ञा श्रीमदादेशः प्रमाणं शिरस्यारोपयामि । हे स्वामिन् , इदं श्रीमत्प्रसादितं निःशेषं समस्तमपि सृजामि करोमि । किंवत् । नियोगिवत् । यः कश्चित्वस्य सुकरे दुष्करेऽपि कार्य आप्रयुक्तः स वनिजजीवमपि दुःखात्कृत्यकृत्यं कुरुते स नियोगी सेवक इव । 'यद्यप्यहं श्रीमत्सेवकोऽस्मि परं नियोगिवत्कार्यकर्ता नास्मि केवलं सेवाकार्येव । यथा परे नियोगिन आश्रवाः श्रीमद्वार्ताकारकाः श्रीमनिर्दिष्टं कार्य कुर्वन्ति तथाहमपि करोमीत्यर्थः । पुनहें प्रभो, पुरा पूर्व मदीहा मम वाञ्छा आसीत् । यदेतान्महामहेन खालयं नयामि । पुनस्तदुपरि ईशस्य पृथ्वीनाथस्य पातिसाहेः शासनं आदेशः तदेतत्सितया शर्करया करम्बितं मिश्रितं पयो दुग्धं दुग्धपानमिव संजातमिति ॥ . अथैनमापृच्छय स भूमिभूषणं प्रदाय धर्माशिषमात्मना पुनः। .
सहानगारैर्निरगात्समाजतः शशीव तारैः शरदभ्रगर्भतः ॥ ११८ ॥
अथ थानसिंहस्य साहेस्तूर्यदानाद्यादेशानन्तरं स सूरिरनगारैः सहागतसाधुभिः सह समाजतः सभामध्यान्निरगात् निर्जगाम । क इव । शशीव । यथा कौमुदीपतिस्तारैस्तारकैरुपलक्षादहोडुभिः । 'प्रथममुपहृत्यार्थ तारैरखण्डिततन्दुलिः' इति नैषधे । तारशब्दोऽकारान्तः । सर्वज्योतिर्भिः सार्धं शरदभ्रस्य शारदीनघनाघनस्य गर्भत उदरात् निर्गच्छति । किं कृत्वा निर्गतः । एनमकब्बरं भूमिपूषणं क्षोणीमण्डलमार्तण्डमापृच्छय