________________
६८२
कायमाला।
ग्रह इव । यथा भौमादिग्रहः चारवशाद्गतिविशेषायत्तत्वात् सवेशगः समीपप्राप्तः मुधारुचेश्चन्द्रस्य पार्थात्परं मन्यु वज्ञांशं भुञ्जते इत्येवंशीला देवास्तेषां पदव्या मार्गस्य गगनस्य भागमन्यं प्रदशं भूषयति । ततः साहिना आकारणानन्तरमुभी शेखथानसिंहो प्रणतिं 'पाटिसाहिसलामत' इत्युक्त्वा भूमौ हस्तं दत्त्वा पुनर्भाले ददता पुनस्तदेव वदन्ती तथैव विदधाती च इति सलाममिति यवनजातिषु नमस्कृतेरभिधानं तामेव सृजन्तौ कुर्वाणी सन्तो अस्य साहेरन्तिकं संनिधानमागता । काविव । ग्रहाविव । यथा कौचिच्चारवशादहेशितुः सूर्यस्य पावें आगच्छतः ॥ युग्मम् ॥
अमी न गृह्णन्ति मदीयपुस्तकं निरीहभावेन बहूदिता अपि । ततो युवां ग्राहयतां कथंचनाप्यमून्यशो मूर्तमिवेन्दुसुन्दरम् ॥१०॥ हे शेखथानसिंही, अमी सूरयो मया वहूदिता वारंवार विज्ञप्ता अपि निरीहभावेन निःस्पृहत्वेन मदीयं सम संबन्धि अथ वा पद्मसुन्दरसत्कमपि मदधीनत्वान्मदीयमेव महत्तं पुस्तकं न गृहन्ति नाददते, ततः कारणायुवां भवन्तौ सूरपार्श्व गत्वा बहु बहु उक्त्वा कथंचन केनचित्प्रकारेणापि विज्ञप्त्यनुनयमत्सामर्थ्यान्वयप्रकटनप्रकारेणापि अमून् सूरीन्प्रति इन्दुसुन्दरं चन्द्रोज्ज्वलं मूर्त प्रत्यक्षं यशः कीर्तिमिव मदीयपुस्तकं ग्राहयतां आदापयताम् । स्वीकारयतामित्यर्थः ॥ .
इदं गदित्वान्तरिते स्थिते नृपेंऽशुमालिनीवाभ्रकशालिनि क्षणात् । उपेत्य तावूचतुरित्यमून्प्रति प्रणीततत्पत्कजरेणुचित्रकौ ॥ १०६ ॥ उपेत्य प्रभुपार्श्वे समेत्य तो शेखथानसिंही अमूनेतान्सूरीन्प्रति इत्यग्रे वक्ष्यमाणं ऊचतुः कथयतः स्म । किंभूतौ । प्रणीतं विहितं. तत्पदकजरेणुभिर्नमस्करणसमये सूरिचरणारविन्दरजोभिश्चित्रकं भालस्थले तिलकं याभ्यां तौ । कस्मिन् सति । इदं पूर्वोकं गदित्वा भाषित्वा अभ्रके मध्ये मध्ये शालते शोभते इत्येवंशीले अभ्रकेणाहश्यमाने अंशुमालिनि भास्करे इव अन्तरित व्यवहिते नृपे राज्ञि स्थिते सति । सूरेरटग्गोचरे नृपो जात इत्यर्थः ॥ इदं व्रतीन्द्राः क्षितिशीतदीधितेर्गृहीतवत्तिष्ठति धानि पुस्तकम् । दधाति खेदं पतितं यतः क्षिते रजःस्थितं रत्नमिवात्र गृह्यताम्॥१०७॥ हे व्रतीन्द्राः सूरयः, इदं पुस्तकं गृहीतवद्वन्दीकृतमिव क्षितिशीतदीधितेरकब्बरस्य धानि तिष्ठति स्थितिमाधत्ते । यतः कारणादव साहिगृहे पतितं खेदं विषादम् । तयोर्भाषया 'अदाबम्' इत्युच्यते । दधाति धत्ते । किमिव । रत्नमिव । यथा क्षितेः पृथिव्या रज:स्थितं धूलीभिः स्थगितं छादितं माणिक्यं खेदं बिभर्ति म्लेच्छमुद्गलगृहत्वाद्रज इत्युक्तं पुस्तकं वन्दिमोचनकारणवच्छ्रीमद्भिः गृह्यताम् ॥
हमाउंसूः सोमयशोऽङ्गजन्मवद्ददाति पात्रं गुरवो युगादिवत् । रसो यथेक्षोरपि वस्तु पुस्तकं कथं न गृह्णीय तदर्हमात्मनः ॥ १०८॥