________________
१४ सर्गः] हीरसौभाग्यम् ।
६८१ प्रसन्नीभूतः प्रत्यक्षीभूतश्च देवो मन्त्राधिष्ठाता सुसाधकस्य मनोवाञ्छितं पूरयति ॥ इति साहेः पुस्तकदानाग्रहः सूरेनिषेधवचः ॥
यदाददे नैष मुहुर्वहूदितस्तदा हृदा भूपतिनेत्यचिन्त्यत । विधीयते किं बहुनिःस्पृहा अमी इवानुरागा न च विक्रमोचिताः॥१०१ यदा एप सूरिः भूपतिना मुहुर्वारंवारं बहु अत्यभ्यधिकमुदितो विज्ञप्तोऽपि नाददे माहिपुस्तकं न गृहीतवान् , तदा भूपतिना अकबरेण हृदा मनसा इत्यग्रे वक्ष्यमाणमचिन्त्यत विचारितम् । अहो कि विधीयते क्रियते । अमी सूरयो निःस्पृहा निरीहाः महानुभावा मुक्ति विना क्वापि वस्तुनि न साभिलाषाः च पुनर्महत्त्वेन विक्रमस्य बलाकारम्यपि नोचिता नाहः । क इव । अनुरागा इव । यथा आदिरागा बलयोग्या न भवन्ति । यतः सूक्तम्-'कविता वनिता गीतिः स्वयमेवागता वरम् । बलादाकृष्यमाणापि सरसा विरसा भवेत् ॥', . तथा-'जरा यौवनस्युं प्राणन होइ जातई प्राणइं प्राणन होइ । प्राणनाथस्युं प्राणन होइ कीर्तिप्रीतिस्युं प्राणन होइ ॥' इत्युक्तेः नात्र वलदर्शनमुचितम् ॥
अमीभिरुक्तिर्मम मन्यते न चेत्ततोऽन्तरा कश्चन संधिकर्तृवत् । विधीयते यद्विविधोक्तिभिः प्रभूनुरीकृति खेन स एव कारयेत् ॥१०२॥
चेद्यदि अभीभिः सूरिभिर्ममोक्तिः मत्कथितं न मन्यते नाङ्गीक्रियते ततः कारणात् संधिकर्तृवत् संधिकारक इव कथन शेखप्रमुखः कोऽपि अन्तरा ममैतेषां च साध्ये विधीयते यत्कारणात्स मध्यविहित एव प्रभून् सूरीन विविधा नानाप्रकारा या उक्तय अनुनयविनयमत्सामर्थ्यखभावजातिप्रकटीकारकाणि वाक्यानि वचनचातुरी विशेषास्ताभिः कृत्वा उरीकृति स्वीकारं कारयेत् । यतो महत्सु विक्रमो नौचितीमश्चति किं तु विज्ञप्तिरेव विधेया, यद्वा कमप्यन्तरा विधायानुनत्या प्रणत्या कथमपि कार्य कार्य. मिति नीतिः ॥
इमं विकल्पं परिकल्प्य चेतसा विभूषयन्भागमितः क्षितेः परम् । सुधारुचेश्चारवशात्सवेशगो ग्रहः पदव्या इव मन्युभोजिनाम् ॥१०॥ महीमरुत्त्वानथ शेखशेखरं प्रतापदेवीतनयं तथाह्वयत् । ततः सृजन्तौ प्रणतिं ग्रहेशितुर्ग्रहाविवास्यान्तिकमागतावुभौ ॥१०४॥
अथ विचारकरणानन्तरमपरप्रदेशागमनानन्तरं च महीमरुत्त्वान् धारेत्रीसुधाशमी शेखेषु यवनानां मान्येषु शेखरमवतंसं मुकुटं वा अवलफैजं तथा पुन: प्रतापदेव्यः रामासाधुतृतीयलघुपत्न्यास्तनयं नन्दनं थानसिंहाद्यं चाह्वयदाकारयामास । किं कुर्वन्। इमं पूर्वोक्तं मनसैव विचारितं विकल्प्यं विचारं चेतसा चित्तेन परिकल्प्यं कल्पयित्वा इतः सूरिपार्थात्परमन्यं क्षितेर्भूमे गं प्रदेशं स्थानं विभूषयन् सेवालंकुर्वन् । क इव ।