________________
१ सर्गः] . हीरसौभाग्यम् ।
१३ नाथस्य बिम्ब प्रतिमामभ्यर्चयतः स्म पूजयतः स्म । बिम्बशब्दः पुनपुंसके । ततस्तदनन्तरं यद्विम्बं विडोजसा शक्रेणापूजि पूजितम् । उत्प्रेक्ष्यते-स्वर्गे देवलोके मनुष्यावतारं विनैव देवसंबन्धिवैक्रियशरीरेणैव सिद्धेर्मुक्तेः स्पृहया वाञ्छयेव ॥
तेनाथ मुक्तं गिरिनारिशृङ्गेऽधिगम्य माणिक्यमिवामराणाम् ।. नीत्वात्मधाम्नोर्विधुपद्मपाणी यदार्चतां निर्वृतिमीहमानौ ॥ ३३ ॥ विधुपद्मपाणी चन्द्राौं यत् श्रीशर्केश्वरपार्श्वबिम्बमात्मधाम्नोः स्वगृहयोनिजविमानयोर्वा नीत्वा आनीय आर्चतां पूजयतः स्म । किं कृत्वा । अथ कियत्कालं पूजनात्तं तेन शक्रेण सौधर्मेन्द्रेण गिरिनारिशृङ्गे रैवताद्रेः काश्चनबलानकाख्यशिखरे मुक्तं स्थापितम् अर्थाद्यत्पार्श्वविम्बं सुराणां माणिक्यमिव चिन्तारत्नमिवाधिगम्य संप्राप्य । विधुपद्मपाणी किं कुर्वाणौ । ईहमानौ कावन्तौ । काम् । निर्वृति मुक्ति सुखं च ॥
ताभ्यां ततः स्थापितमुज्जयन्ते पाच स्वसर्वस्वमिवावसाय । आखण्डलः कुण्डलिनां क्रमेण सभाजनायानयदात्मधाम्नि ॥ ३४ ॥ कुण्डलिनां भुजंगानामाखण्डलः पुरंदरो नागेन्द्रः क्रमेण कियता कालेन श्रीपार्श्वबिम्ब सभाजनाय पूजनार्थम् । 'सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा' इति नैषधे । 'सभाजनं पूजनम्' इति तंदृत्तिः । आत्मधानिं स्वमन्दिरे आनयदानयति स्म । किं कृत्वा । अवसाय ज्ञात्वा । कम् । पार्श्वनाथम् । पुनः पूर्ववदेव ताभ्यां चन्द्रार्काभ्यामुज्जयन्ते रैवताचले स्थापितं न्यासीकृतम् । किमिव । स्वसर्वस्वमिव स्वस्यात्मनः सर्वव्यनिधिमिव ॥ गिराथ नेमेररविन्दनाभिरुपास्य पद्माप्रियमष्टमेन । आनाययत्तेनं जितं तमात्मद्विषजयं मूर्तिमिवाश्रयन्तम् ॥ ३५ ॥ अथ कियत्कालपूजनानन्तरमरविन्दनाभिर्नारायणो नेमेः श्रीनेमिनाथस्य गिरा वाचाटमेनाष्टमभक्तेन पद्माप्रियं पद्मावत्याः प्राणनाथं धरणेन्द्रमुपास्य आराध्य तेन धरणेन्द्रेण तं पूर्वव्यावर्णितस्वरूपं जिनं पार्श्वनाथमानाययत् । उत्प्रेक्ष्यते-मूर्ति शरीरंमाश्रयन्तमास्मनः स्वस्य द्विषतां वैरिणां विजयमिव । 'अरविन्दनाभिः' इति माघकाव्ये । तथा 'अर. विन्दनाभिर्भाललोचनश्चक्रपाणि रित्यादयः शिष्टप्रयोगाः संमता एव' इति कातन्त्रव्याकरणवार्तिकेऽपि ॥
ततो जरा येन यदूद्वहानां न्यवारि वारा स्नपनोद्भवेन । बाणस्य कुष्टं वपुषस्त्विषेव राजीविनीजीवितवल्लभेन ॥ ३६॥ ततोऽत्रागमनानन्तरं येन श्रीपार्श्वनाथेन सपनोद्भवेन निजनानसमुत्पनेन दारा स. लिलेन कृत्वा यवहानां यदुनन्दनानां समस्तयादवानां जरा प्रतिवासुदेवजरासंधविद्याशखसमुद्भूतीवनसा । 'विस्रसा जरा' इति हैम्याम् । न्यवारि निवारिता । केनेव । राजी