________________
काव्यमाला1
विनीजीवितवल्लभेनेव । यथा पद्मिनीप्राणनाथेन भानुना विषा,स्वकिरणेन कृत्वा बाणस्य बाणनाम्नः कवेर्वपुषः शरीरात्कुष्टं दुष्टरोगविशेषो निराकृतः । एतद्यतिकरविस्तरभक्तामरस्तववृत्तेरवसेयः॥
यत्रार्हताध्मायि निजध्वजिन्यास्त्राणाय कम्बुभ्रंमता समन्तात् । तत्राच्युतेनारिजयप्रशस्तिरिवात्मनः शङ्खपुरं न्यधायि ॥ ३७ ॥ यत्र स्थाने निजस्या(जाया) आत्मीयाया निजस्य स्वस्य वा ध्वजिन्याः सेनायास्त्रा. णाय रक्षणाय समन्तात्सेनासर्वतो भ्रमता भ्रमणी कुर्वता सता अर्हता श्रीनेमिनाथेनं कम्बुः शक्रशङ्खोऽध्मायि वादितः पूर्यते स्म । तत्र तस्मिन्स्थाने अच्युतेन विष्णुना शसपुरं नाम नगरं न्यधायि स्थापितम् । वासितमित्यर्थः । उत्प्रेक्ष्यते-आत्मनो निजस्य शत्रूणामरीणां जयप्रशस्तिः संग्रामे जरासंधादिद्वेषिनिषूदनाद्यक्षरमालिकेव ॥ .
वसुंधराया इव वैजयन्तं निर्माप्य चैत्यं सुरगोत्रमित्रम् । . . निवेशयामास सुवर्णबिन्दुरानन्दसान्द्रोऽत्र जिनेन्द्रबिम्बम् ॥ ३८ ॥
सुवर्णबिन्दुर्नारायणोऽत्र चैत्ये जिनेन्द्रविम्ब श्रीपार्श्वनाथप्रतिमां निवेशयामास स्थापि. तवान् । किं कारयित्वा । निर्माप्य विधापयित्वा । किम् । चैत्यं प्रासादम् । किंभूतम् । सुराणां गोत्रस्य गिरेमरोः । 'शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्' इति हैम्याम् । मित्रं सुराद्रिवत्तुङ्गमित्यर्थः । केि. सुवर्णविन्दुः । आनन्दसान्द्रः प्रमोदमेदुरः। उत्प्रेक्ष्यते-वसुंधरायाः पृथिव्या वैजयन्तमिन्द्रप्रासादमिव ॥
स्वकारितेशाचलचारुचैत्ये निशिंतः सज्जनमन्त्रिणा यः । ‘स रोपितः स्वःशिखरीव सौधाङ्गणेऽस्य जज्ञेऽखिलसिद्धिदायी ॥३९॥
स शर्केश्वरपार्श्वनाथोऽस्य सजनमन्त्रिणोऽखिलाः समस्ता अष्टसंख्याका अणिमाद्या अन्या वा मन्त्रतन्त्रस्वर्णरूप्यादिका हृदयाभिलाषिता सिद्धीर्ददानीत्येवंशीलो. दायी दायको जज्ञे जातः । क इव । स्वःशिखरीव । यथा सौधस्य निजमन्दिरस्याङ्गणे रोपित उप्तः सुरद्रुमो निखिलार्थसिद्धिदः स्यात् । स कः । यः प्रभुः स्वेनैवात्मनैव कारितं शिल्पिभिनिर्मापितम्, तथा-ईशाचल: कैलाशस्तद्वच्चार तुङ्गं सुधाधवलं च यच्चैत्यं प्रासादस्तस्मिन् सजननाम्ना मत्रिणा निवेशितः स्थापितः। अथ वा सजनमन्त्रिणा स्वकारितोत्तुङ्गचैत्ये निवेशितस्तस्मिन् सौधाङ्गणे प्ररोपितसुरतरुरिव सकलार्थसिद्धिदातासीत् । अत्र च 'प्ररोपितः' इति पाठः ॥ निःस्वादिवैश्वर्यमनाप्य झंझूपुरातो दुर्जनशल्यभूमान् । रूपं यतः स्मारमिवाप्य देवस व यच्चैत्यमचीकरच्च ॥ ४० ॥ च पुनः-कियति काले व्यतीते सति दुर्जनशल्यनामा भूमान् राजा यच्चैत्यं यस्य भगवतः प्रासादमचीकरत् शिल्पिभिः कारयामास । उत्प्रेक्ष्यते-देवस व सुपर्वविमान