________________
काव्यमाला।
च्छेयमुत्प्रेक्षा । अथ वा 'विन्ध्येन धैर्यैरिव धिकृतेन' इति पाठः । तत्र धैर्मन्दरादिभ्योऽप्यतिशायिस्वधीरताभिधिकृतेनातिभूतेन विन्ध्येन विन्ध्याचलेनोपदीकृतमिव । विन्ध्याचले हि कारणां सद्भावः । 'रोहणाचले रत्नानि । मलयाद्री चन्दनानि । विन्ध्याचले गजाः' इत्यादि काव्यकल्पलतायाम् । तथा-'स्वस्थानात्पदमात्रमप्यचलतो विन्ध्यस्य चानेकशो जायन्ते मदपालिपालितयशःश्रीलम्भिनः कुम्भिनः' इति सूक्तेऽपि ॥
चैत्येन चूडामणिनेवं शीर्ष विर्भूष्य राजर्षिरमुष्य श्रृंङ्गम् । .. सिद्धाचलस्येव सुमङ्गलाभूस्तीर्थत्वमुखें प्रथयांचकार ॥ ३० ॥
कुमारपालोऽमुष्य तारणगिरेः । तारण इत्यभिधानं सामसौभाग्यकाव्ये । तीर्थत्वं च सकलकर्मक्षयकरणविधिना मोक्षगमनस्थानकतामुळ पृथिव्यां प्रथयांचकार विस्तारयामास । क इव । सुमङ्गला भूरिख । यथा सुमङ्गला ऋषभदेवपत्नी तस्या तस्या वां भवतीति सुमङ्गलाभूर्भरच(त)क्री सिद्धाचलस्य शत्रुजयाद्रेस्तीर्थतां प्रथयति सा । किं कृत्वा । विभुष्य विभूषां शोभा लम्भयित्वा । कम् । शृङ्गं शिखरम् । अर्थात्तारणगिरेरेव । केन । चैत्येन स्वकारित विहारेण । किं केनेव ।, शीर्षे चूडामणिनेव । यथा कश्चित्पुमान् मस्तकं चूडामणिना विभूषयति ॥
देशे पुनस्तत्र समस्ति शर्केश्वरोऽन्तिकस्थायुकनीगनाथः । धात्रा धरित्र्यां जगदिष्टसिद्ध्यै मेरोरिवादाय सुरद्रुरुप्तः ॥ ३१ ॥
अपरतीर्थवर्णनाधिकारे तत्र गुर्जरदेशे पुनरन्यत् श्रीशद्वेश्वरपार्श्वनाथः तीर्थ समस्ति जागति । किं० शङ्केश्वरः । अन्तिके समीपे स्थायुकः सेवाहेवाकितया नित्यं तिष्ठत्येवंशील: नागानां नाथः प्रभुर्धरणेन्द्रो यस्य । अथ वा। षष्ठाशीतिसंहस्रनागनायकप्राग्जन्मवर्धमानाचार्याभिधानशद्धेश्वराधिष्ठायकनागेन्द्रो यस्य । अथ वा पुरुषादेयनामकर्माणं श्रीपावनाथं विमुच्य अन्येषां देवानां समीपे अधिष्ठातृत्वेन । अमानोना प्रतिषेधे । ना कदा. चिदपि न गच्छन्तीति नागाः अष्टाचत्वारिंशसहस्रयक्षास्तेषां नाथः पार्श्वयक्षो यस्य सः । उत्प्रेक्ष्यते-जगदिष्टसिद्ध्यै । 'तात्स्थ्यात्तद्यपदेशः' इति न्यायाज्जगज्जनानामिष्टस्याभिलषितस्य सिद्ध्यै पूर्तये मेरोः मुरतरुनिवासभूमेरादाय गृहीत्वार्थात्कल्पद्रुमं धात्रा ब्रह्मणा धरित्र्यां गुर्जरमण्डलमेदिन्याम् । धरित्रीति गुर्जराभिधानम् । अथवा केवलं भूमावेव सुरदुः कल्पवृक्ष उप्तः प्ररोपित इव ॥ विद्याधरेन्द्रौ विनमिन मिश्च यद्विम्बमभ्यर्चयतः म पूर्वम् । स्वर्गे ततोऽपूजि विडोजसा यत्स्वधाम्न एव स्पृहयेव सिद्धेः ॥ ३२ ॥ नमिश्च पुनर्विनमिर्नाम विद्याधरेन्द्रौ छद्मस्थश्रीऋषभदेवसेवासंतुष्टधरणेन्द्रप्रदत्तवैताच्यदक्षिणोत्तरश्रेणिद्वयराज्याष्टाचत्वारिंशद्विद्यालंकृतौ पूर्व प्रथममस्याश्चतुर्विशत्यादिसमये श्रीमयुगादिदेवे विद्यमाने सति नमिविनमिनामानौ खेचरेन्द्रौ यस्य श्रीशङ्केश्वरपार्श्व.