SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ १ सर्गः] हीरसौमाग्यम् । अथ कानिचित्तीर्थानि प्रतिपाद्यन्तेशत्रुजयाद्रेस्तलहट्टिकायां यदापभिर्वासयति स पूर्वम् । द्विषन्निव क्षोणिभृतां विनीतां यस्मिंस्तदानन्दपुरं समस्ति ॥ २६ ॥ यनगरं पूर्व प्रथमयात्राकरणसमये शत्रुजयाद्रिदर्शनादुत्पन्नामन्दानन्दात् शत्रुजयादेः सिद्धावलयस्य तलहहिकायां सीमभूमौ । 'सम्मेतशैलतलहहिकायां प्रामसत्तमे । क्षेमंकरः सार्थनामा प्रामाध्यक्षो भवानभूत् ॥' इति प्रतिक्रमणसूत्रबृहद्वृत्तौ । ऋषभस्यापत्यमार्षभिभरतचक्री वासयति स्म निवेशितवान् । वार्धकिरत्नेनेति शेषः । क इव । क्षोणिभृतां द्विषन्निव । यथा पर्वतानां शत्रुरिन्द्रः पूर्व प्रथमं श्रीऋषभस्वामिराज्यावसरे सर्वनगर. पुरग्रामादिनिवेशनप्रथमप्रारम्भे विनीतां नाम्नी नगरी वासितवान् । धनदेनेति शेषः । यस्मिन्देशे तदानन्दपुरमधुना नु बृहनगरापराभिधानं पुरं विभाति ॥ इत्यानन्दपुरम् ॥ यत्तुङ्गतारङ्गगिरौ गिरीशशैलोपमे कोटिशिला समस्ति । स्वयंवरोर्वीव शिवाम्बुजाक्षीपाणिग्रहे कोटिमुनीश्वराणाम् ॥ २७ ॥ यस्मिन्देशे तुङ्गेऽभ्रंलिहे तारङ्गनानि पर्वते कोटिशिला समस्ति विद्यते । किंमते तारङ्गगिरौ । गिरीशस्य शिवस्य शैल: कैलाशस्तस्योपमा सादृश्यं यस्य स तस्मिन् । उ. ‘रप्रेक्ष्यते-कोटिसंख्याकानां मुनीश्वराणां शिवं सिद्धिः सेवाम्बुजाक्षी वधूस्तस्याः पाणिप्रहे विवाहे स्वयंवरोर्वी स्वयंवरमण्डपमेदिनीव ॥ यत्पर्वते कल्पितसप्तभूमी राजर्षिणाकार्यत जैनगेहः। इवाघिरोढुं शिवचन्द्रशालां निःश्रेणिकारोहणसप्तकाङ्का ॥ २८ ॥ यस्मिस्तारङ्गशैले राजर्षिणा कुमारपालेन कल्पिता रचिताः सप्तसंख्याका भूमयः । पिट्टणिका । उपर्युषार स्थितिस्थानकानि यत्र स कल्पितसप्तभूमि नगेहः प्रासादः शिल्पिभिरकार्यतं निर्मापितः । उत्प्रेक्ष्यते-शिवं मोक्षस्तदेव चन्द्रशाला शिरोगृहं तामधिरोदुमुपरि चटितुम् । चटतिप्रयोग ऋषिमण्डलवृत्तौ। यथा-'चटिष्यति कथं प्रौढदेहोऽयं गजराजवत्' इति । आरोहणानां सोपानानां सप्तकमङ्के उत्सङ्गे यस्यास्तादृशी निःश्रेणिका अधिरोहणी कारितेव ॥ गभीरताधःकृतवार्धिनेवोपदीकृतं दन्तिनमुद्वहन्तम् । राजर्षिरस्मिन्विजयाङ्गजातं तीर्थाधिपं स्थापयति म चैत्ये ॥ २९॥ अस्मिस्तारङ्गगिरौ चैत्ये स्वकारिताप्रासादे राजर्षिः कुमारपालभूपालो विजयाया जितशत्रुनृपपत्न्या अङ्गजातं नन्दनमजितनामानं द्वितीयतीर्थकरं स्थापयति स्म निवेशयामास। किं कुर्वन्तम् । उद्वहन्तं दधतम् । कं कर्मतापन्नम् । दन्तिनमल्लिाञ्छनरूपं गजम् । उत्प्रेक्ष्यते-गभीरतया गाम्भीर्येणाधःकृतेन अलब्धमध्यत्वेन पराभूतेन वार्धिना समुद्रेण उपदीकृतं दौकितमिव । वा? जलकारणां सद्भाव[स]त्वादैरावणस्याप्यर्णवे समुत्पन्नत्वा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy