________________
काव्यमाला।
क्ष्यते-स्वच्छन्दं स्वेच्छया केली क्रीडा । 'केलीभिरुद्धर कृशोदर' इति नैषधे । तया तरलीभवन्त्यावश्लाजायमानाया वर्षलक्ष्म्या भरतक्षेत्रश्रियाः शिरस्तो मस्तकाद्भुवि भूमौ सस्तं पतितमुत्तरीयमुपर्याच्छादनवस्त्रं प्रावरणमिव । किंभूतम् । मरुता वायुना उत्पावल्येन तरङ्गयुकं कृतम् । पुनः किंभूतम् । सितमुज्ज्वलम् ॥ इति गडा॥इतिभरतक्षेत्रम् ॥ - तदक्षिणार्धे सुरगेहगर्वसर्वकषो गूर्जरनीवृदास्ते ।
श्रियेव रन्तुं पुरुषोत्तमेन जगत्कृताकारि विलासवेश्म ॥ २३ ॥ तस्य भरतक्षेत्रस्य दक्षिणदिक्पार्श्ववर्तिनि अर्धे सामिभागे खण्डे सुरगेहस्य स्वर्गस्य यो गर्वः स्ववैभवाहंकारस्तस्य सर्वकषः सर्वापारी गूर्जर इति नामा नीद्देश आस्ते वर्तते । उत्प्रेक्ष्यते-पुरुषोत्तमेन नरश्रेष्ठेन। जातावेकवचनम् । विष्णुना च सार्धे रन्तुं कीहितुं श्रिया लक्ष्म्या का जगत्कृता सर्वसृष्टिविधायिना विधात्रा विलासवेश्म केलि निकेतनमकारि कारतमिव । ण्यन्तप्रयोगः ॥ . .
अशेषदेशेषु विशेषितश्रीर्यो .मञ्जिमानं वहते स्म देशः । आक्रान्तदिक्चक्र इवाखिलेषु वसुंधराभर्तृषु सार्वभौमः ॥ २४ ॥ यो देशो गर्जरमण्डलो मञ्जुनो भावो मञ्जिमा तं चारुतां वहते स्म दधौ । किंभूतो देशः । विशेषः सर्वातिशायिता संजातोऽस्यामिति विशेषिता श्रीर्धनधान्यादिका सर्वापि संपत्तिरूपा लक्ष्मीः शोभा वा यस्य । अत्र समासान्तविधेरनित्यत्वात्कप्रत्ययाभावः । केषु । अशेषेषु समस्तेषु देशेषु जनपदेषु । पुनः किंभूतम् । आक्रान्तं महत्त्वादात्मना व्याप्तं दिशां चतसणामुपलक्षणाद्विदिशामपि एतावता अष्टानां हरितां चक्रं मण्डलं येन । क इव । सार्वभौम इव । यथा सर्वभूमेरीश्वरश्चक्रवर्ती अखिलेषु सर्वेषु वसुंधराभर्तृषु भूपालेषु विशेषितश्रीभवति । किंभूतः । आक्रान्तं खभुजबलेन विजितं दिक्चक्रं येन ॥.
सुखामिभाजो विबुधाभिरामाः सजिष्णवो यत्र पुरः स्फुरन्ति । धृता दधानेन दिवाभ्यसूयां येनामरावत्य इवाप्रमेयाः ॥ २५ ॥ यत्र देश पुरो नगर्यः स्फुरन्ति । किंभूताः । सुशोभनं नीतिमन्तं खामिनं राजानं भजन्ति इति सुस्वामिभाजः । पुनः किंभूताः । विशेषेण बुधाश्चतुर्दशविद्यावेदिनः पण्डितास्तैरभिरामा मनोज्ञाः । पुनः किंभूताः । सह जिष्णुभिर्जयनशीलैः सुभटादिभिर्वर्तन्ते यास्ताः । उत्प्रेक्ष्यते-दिवा देवलोकेन सहाभ्यसूयामी? दधानेन वहता येन देशेन अप्रमेयाः प्रमातुमशक्या गणनातीता अमरावत्य इन्द्रपुर्य इव धृताः । किंभूता अमरावत्यः । सुस्वामिनं सहस्राक्षत्वात्सर्वप्रकृतिभाववेदिनं पुरंदरं स्वामिकार्तिकं वा भजन्तीति । पुनः किंभूताः । विबुधैर्देवै रम्याः । पुनः किंभूताः । सह जिष्णुना शक्रेण कृष्णेन वा वर्तन्ते यास्ताः । सश्रीका हरय इति चम्पूकथायाम् । अथ वा जिष्णुश्च जिष्णुश्च जिष्णू कृष्णेन्द्री ताभ्यो सह । सरूपाणामेकशेषे ॥