SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १ सर्गः) हीरसौभाग्यम् । इवाचरितः । 'केशानां कैश्यकेशिके' इति हम्याम् । कूलिनीशो लवणाम्बुराशियस । पुनः किंभूतः । ललानस्तिलकस्य लीला विलासस्तद्वदाचरितः सिद्धशैलः शत्रुजयाद्रियस्मिन् यस्य वा । ललामशब्दो नकारान्ताकारान्तोऽप्यस्ति लिङ्गानुशासनावो । पराजितद्वीपततिप्रतीष्टचिरत्नरत्नाद्युपदागणेन । द्वीपेन पृथ्वीपतिनेव वर्ष व्यधायि धामोपनिधेरिवैतत् ॥ १९॥ द्वीपेन जम्बूनाम्ना एतद्वर्ष भारतं क्षेत्रमुपनिधैः । उत्प्रेक्ष्यते-न्यासस्य धाम गृहं व्य. धायि चक्रे । केनेव । पृथ्वीपतिनेव । यथा राज्ञा निक्षेपस्य निकेतनं क्रियते । किमतेन द्वीपेन पृथ्वीपतिना च । पराजिता निजोजोविभवैः पराभूता स्वायत्तीकृता च । 'ओजो बले प्रतापे च' इत्यनेकार्थः । या द्वीपानां ततिः श्रेणी तस्याः सकाशात्प्रतीटो गृहीतश्विरत्नानि चिरकालोत्पन्नानि रत्नानि मणयस्तदादिरुपदागण: प्राभृतप्रकरो येन स तेन । 'प्रतीष्टकामज्वलदस्त्रजालकम्', तथा 'चिरत्नरत्नाचितमुच्चितं चिरात्' इति नैषधे ॥ इति भरतक्षेत्रम् ॥ वैताढ्यशैलो विपुलां द्विफालां विनिर्मिमीते स्म निजेन यस्य । यमीभ्रमीभङ्गिविभूष्यमाणां स्त्रैणस्य सीमन्त इव प्रवेणीम् ॥ २० ॥ वैतान्यनामा शैलः यस्य भरतक्षेत्रस्य भूमी द्विफालां द्विभागां निमिमीते स्म कृतवान् । 'द्विफालबद्धाश्चिकुराः शिरःस्थितम्' इति नैषधे । केन । निजेन आत्मना। श्रुत्वा निजं भीमजया निरस्तम्' इति नैषधे । 'निजमात्मानम्' इति तद्वत्तिः । क इव । सीमन्त इव । यथा स्त्रैणस्पः स्त्रीणां समूहस्य सीमन्तः केशवम प्रवेणी कबरीं द्विफालां कुरुते । किंभूताम् । भूमी प्रवेणी च । यमी यमुना तस्या भ्रमी भ्रमणमावर्तकृज्जलपरिभ्रान्तिस्तस्या भङ्गयो विलासाः । 'शृङ्गारभङ्गिरुचिरेऽपि' इति नैषधे। 'शृङ्गारविलासयोग्येऽपि' इति त. द्वत्तिः । रचनाश्च । ताभिर्विभूष्यमाणामलंक्रियमाणाम् ॥ वैताठ्यशैलेन विभज्यमानावुभौ विभागौ भरतस्य भातः । : द्वीपावनीपं किमुपेत्य भूत्या जितौ भजन्तौ फणिनाकिलोकौ ॥ २१ ॥ भरतक्षेत्रस्य वैताढ्यनाम्ना शैलेन विभज्यमानौ विभागीक्रियमाणावुभौ द्वौ विभागा. वंशी भातो राजतः । किमुत्प्रेक्ष्यते । भृत्या स्वलक्ष्म्या जितौ पराभूतौ सन्तौ उपेत्य समीपमागत्य द्वीपमेवावनीपं भूपं सेवमानौ भजन्तौ फणिनां नागानां नाकिनां देवानां लोको भुवनौ । पातालखर्गलोकावित्यर्थः ॥ इति भरतक्षेत्रस्य द्वौ विभागौ ॥ खच्छन्दकेलीतरलीभवन्त्याः स्रस्तं शिरस्तो भुवि वर्षलक्ष्म्याः । किमुत्तरीयं मरुतोत्तरङ्गीकृतं सितं यत्र बभस्ति गङ्गा ॥ २२ ॥ . यत्र भरतक्षेत्रे गङ्गा बभस्ति भासते । “निशानभःसदृशे रजनीगगनतुल्ये। तथा निशानस्तेजस्विभिर्वभस्तीति । तथा सदृश इ: कामो यस्य' इति चम्पूटिप्पनके । उत्प्रे
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy