SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। यत्रोल्लसद्गौरिमतुङ्गिमश्रीझरप्रवृत्तिः स्फुटभद्रशाली । करीव हेम्नः शिखरी विभाति रवीन्दुघण्टाग्रहघर्घरीमान् ॥ १६ ॥ यत्र द्वीपे हेनः स्वर्णस्य शिखरी पर्वतो मेरुर्विभाति । क इव । करीव हस्तीव । किंभूतो मेरुः करी च। उल्लसन्ती प्रोल्लासं प्राप्नुवन्ती स्फुरन्ती गौरिम्नः । 'गोरस्तु श्वेतपी. तयोः' इत्यनेकार्थः । पीतत्वस्य श्वेततायाश्च । तथा-तुङ्गिन उन्नतत्वस्य श्रीः शोभा यस्मिन् सः । समासान्तविधेरनित्यत्वाझ्यवस्थितविभाषयात्र समासान्तः कप्रत्ययो नागात् । नैषधेऽप्येवं दृश्यते । यथा-'उडुपरिषदि मध्यस्थायिशीतांशुलेखानुकरणपटुलक्ष्मीमक्षिल. क्षीचकार' इति । गजविशेषणेऽप्येवमेव । पुनः किंभूतः । झराणां निझराणां प्रवृत्तिः प्रवर्तनं प्रसरणं यस्माद्यस्मिन्वा मेरौ । करिणि तु निर्झरप्रचारवत्सप्तधाप्रवृत्तिर्मदप्रवाहो यस्मिन् । 'मदो दानं प्रवृत्तिश्च' इति हैम्याम् । पुनः किंभूतः । स्फुटं चिनिद्रमुन्मिपितं वि. कसितम्। दलितं स्फुटितं स्फुटम्' इति हैम्याम् । भद्रशालाख्यं वनं यत्र । करी तु स्फुट प्रकटं भद्रजातित्वेन शालते शोभते इति सः । 'शाल प्रशंसायाम्' इति कल्पद्रुमे । पुनः किंभूतः । रवीन्दू सूर्याचन्द्रमसौ तावेव घण्टे तथा प्रहा मङ्गलाद्या उपलक्षणानक्षत्रतारकास्त एव घर्घर्यः क्षुद्रघण्टिका यस्मिन्सः । गजोऽपि रवीन्दुवद्वृत्तघण्टाभ्यां ग्रहसक्किद्विणीभिश्च युक्तो भवति ॥ यत्रार्थिनोऽर्थेशमिव प्रसार्य करान्सुवर्ण विवरीषवः किम् । प्रदक्षिणागोचरतां नयन्ति ज्योतिर्गणा गैरिकसानुमन्तम् ॥ १७ ॥ यत्र जम्बूद्वीपे ज्योतिर्गणा ग्रहनक्षत्रतारासमूहा गैरिकस्य । 'गैरिकं स्वर्णधात्वोः' इ. त्यनेकार्थः । सानुमन्तं पर्वतं सुमेरुम् । प्रदक्षिणाया दक्षिणावर्तभ्रमिक्रियाया गोचरतां नयन्ति प्रापयन्ति । मन्ये न मे श्रवणगोचरतां गतोऽसि' इति कल्याणमन्दिरस्तवे । तथा'द्वीपाधिपान्नयनयोर्नय गोचरत्वम्' इति नैषधे । कि० । उत्प्रेक्ष्यते-करन्किरणान्पाणीन्प्रसार्य विस्तार्य विवरीषवः । 'वृञ् याचने । वरीतुमिच्छवो याचितुकामाः किम् । के इव। अधिन इव । यथा याचकाः करान्प्रसार्य सरलीकृत्य स्वर्णमभ्यर्थयितुकामा अर्थेशं धनपति प्रदक्षिणयन्त्यनुकूलीकुर्वन्ति ॥ इति मेरुः ॥ सवेशकैश्यायितकूलिनीशो ललामलीलायितसिद्धशैलः । द्वीपेन्दिराया इव भालपट्टो यस्मिन्व्यभाद्भारतनाम वर्षम् ॥ १८ ॥ यस्मिञ्जम्बूद्वीपे भारतमिति नाम यस्य तादृशं वर्षे क्षेत्र व्यभावभासे । यादृक् प्रथमाघरकेष्वभूत् ताइक्पश्चमारके नास्ते।अवसर्पिणीकालानुभावात्सर्वेऽपि पदार्था अनन्तगुणपर्यादिभिहीयमानाः सन्त्यत एव भूतकालः । उत्प्रेक्ष्यते-द्वीपेन्दिराया जम्बूद्वीपलक्षम्या भालपट्टो ललाटमिव । किंभूतः । सवेशे संनिधौ श्यागत्वाकैश्यायितः केशसमह १. 'द्वीपावनीन्दोरिव' इति पाठः.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy