________________
१ सर्गः ]
हीरसौभाग्यम् ।
चक्रे रथाङ्गे तयोर्द्वयं बिभर्तीति चक्रद्वयभृत् । पुनः किंभूतः । प्रभूतानां क्षेत्राणाम् । १ भरत २ हिमवत् ३ हरिवर्ष ४ महाविदेह ५ देवकुरु ६ उत्तरकुरु ७ रम्यक ८ ऐरण्यवत ९ ऐरावताभिधानानां नवसंख्याकानां वर्षाणां प्रकर्षेण भूरुत्पत्तिस्थानम् । पुनः किंभूतः । रत्नानां मणीनां निधानानां च वार्धिर्वार्धिनामधेया संख्या यत्र । 'शतं सहस्रमयुतं लक्षप्रयुतकोटयः । अर्बुदमब्जं खर्वे च निखर्वे च महाम्बुजम् । शङ्कुर्वाधिरन्त्यं मध्यं परार्ध्य चेति नामतः॥' इति हैममालायाम् । लौकिका संख्या । यद्वा रत्नैरुपलक्षितानि संपूर्णानि वा निधानानि निधयः वार्धिश्च । सगरचक्रवर्तिवचसा सुस्थितसुरानीतः शत्रुंजयरौलाद्वादशक्रोशदूरमुक्तः समुद्रो यत्र । पुनः किंभूतः । असंख्याः संख्यातीता ये द्वीपाः । १ धातुकीखण्ड २ पुष्कर ३ वारुणी ४ क्षीर ५ घृत ६ इक्षु ७ नन्दीश्वर ८ अरुण ९ अरुणवर १० अरुणवरावभास एवं त्रिप्रत्ययावतारकुण्डल - शङ्ख- रुचक- भुजग--कुश क्रौञ्चप्रमुखा असंख्याता द्वीपास्त एवावनीं पृथ्वीं पान्ति रक्षन्ति इति कृत्वा भूपास्तैरुपास्यमानः संसेव्यमानः । चक्री तु एकचक्रभृत्तथा एकस्य भरतादेः क्षेत्रस्य प्रभुः स्वामी । तथा चतु. र्दशनवनिधानवानेव, द्वात्रिंशत्सहस्रसंख्याकैरेव भूपै राजभिः सेव्यः ॥ इति जम्बूद्वीपः ॥
अन्तःस्फुरन्मौक्तिकरत्नराजीविराजिकुल्येशदुकूलभानः ।
भाखज्जगत्यर्जुनमेखलाया निशावशा हर्मणिकर्णिकायाः ॥ १४ ॥ संध्यारुचीकुङ्कमपङ्किलाङ्कप्राचीप्रतीचीक्षितिभृत्कुचायाः ।
द्वीपश्रियास्तारकतारहारे किनायको राजति रत्नसानुः
१५ ॥
यत्र जम्बूद्वीपे रत्नसानुर्मेरू राजति शोभते । किं । उत्प्रेक्ष्यते — द्वीपश्रिया जम्बूद्वीपल • दम्यास्तारका ज्योतींषि ता एव तारा निर्मलमौक्तिकानि । 'तारो निर्मलमौक्तिके' इत्यनेकार्थः । तेषां हारस्तत्र किनायको मध्यमणि: । किंभूताया द्वीपश्रियाः । अन्तर्मध्ये स्फुरतां द्योतमानानां मौक्तिकानां मुक्ताफलानां रत्नानां मणीनां राजी श्रेणी तया विराजते इत्येवंशीलो य: कुल्यानां नदीनाम् । 'कुल्या तु सारिणी नद्योः' इत्यनेकार्थः । ईशः स्वामी । "यादः स्रोतोवार्नदीश:' इति हैमीवचनात् । स[मुद्र ] एव दुकूलं क्षौमवस्त्रं भजत्याश्रयते सा तस्याः । ' सागराच्चाग्रे स्युर्नमी मेखलाम्बराः' इति हैमीवचनात् । समुद्रस्य वस्त्रत्वेनोपादानम् । पुनः किंभूतायाः । भास्वन्ती दीप्यमाना या जगती । कपिशीर्षकवजितप्रकारभित्तिः । सैवार्जुनस्य सुवर्णस्य मेखला काची यस्याः सा तस्याः । पुनः किंभूतायाः । निशा रात्रिर्वशा प्रिया यस्य स निशापतिश्चन्द्रस्तथा हर्मणिर्भास्करस्तावेव कर्णिके कर्णभूषणे यस्याः सा तस्याः । पुनः किंभूतायाः । संध्ये दिनाद्यवसानभवे तयो रुची कान्तिः । रुची शब्दो दीर्घेकारान्तोऽप्यस्ति । यधा --- रुच्यो रुचीभिर्जितकाञ्चनाभिः' इति नैषधे । सैव कुङ्कुमं केसरं तेन पङ्किलौ व्याप्तावङ्कावुत्सङ्गौ ययोस्तथाविधौ यौ प्राची पूर्वा प्रतीची पश्चिमा तयोः क्षितिभृतौ पर्वतावदयास्ताचलनामानौ तावेत्र कुचौ स्तनौ यस्यास्तस्याः ॥ युग्मम् ॥
१. 'कुण्डलाया:' इति पाठः.