________________
६७८
काव्यमाला। मुहुर्वारंवारमशोचि शोचितः शोकगोचरतां प्रापितः । किंवत् । वातेन प्रचण्डपवनेन पातितो मूलादुन्मूल्य निक्षिप्तः अजिरे वहाङ्गणे प्ररूढ उद्गतः अमरसालवत्कल्पवृक्ष इव । यथा निजगृहाजिरोद्गतवातनिष्पातितरुः शोच्यते तथा मयासी मुद्गल: शोच्यते इत्यर्थः ॥
अमुष्य शिष्येषु गवेषयन्नहं न साधिमानं बहुपात्फलेष्विव । चकार तत्पुस्तकमात्मसात्ततो यदिन्दिरा नीतिमुचं विमुञ्चति ॥ ९३ ॥ हे सूरे, ततः पद्मसुन्दरस्य वर्गगमनानन्तरं तस्य मद्वयस्यस्य पुस्तकं लिपीकृतसर्वशास्त्रचक्रमात्मसान्मया दत्तं चकार । उत्तमपुरुषैकवचनं णप्। मद्गृहे एवाहं रक्षितवानित्यर्थः । अहं किं कुर्वन् । अमुष्य मम सख्युः पद्मसुन्दरस्य शिष्येषु विनेयेषु साधो. र्भावं साधिमानं साध्वाचारतां श्रीसमीचीनभावम् । 'त्वयातः किं नरसाधिमभ्रमः' इति नैषधे। न गवेषयन् अपश्यन् । केष्विव । बहुपात्फलेष्विव । यथा न्यग्रोधपादपफलेषु साधिमा चारता न गवेष्यते गृहीतम् । कुतः । यतः कारणात् नीतिमुचं न्यायत्यागिनं खाचारहीनं नरमिन्दिरा श्रीविमुश्चति जहाति । यदुक्तम्-'सत्यपि सुकृते कमाणे दुर्नीतिरपान्तरे श्रियं हरति । तैलेऽनुपभुक्तेऽपि हि दीपशिखां किमु न वाताली ॥' इति । यस्तु सदाचारवांस्तमेवागत्य लक्ष्मीः श्रयते ।। दिनान्तसंध्यासमयखधाशनाम्बुजाननाकोशमिवाखिलागमन् । इमं प्रदास्याम्यहमत्र कस्यचिन्महानुभावस्य हृदेत्यचिन्तयम् ॥ ९४ ॥ हे सूरे, अहं तत्समस्तपुस्तकं खसात्कृत्वा हृदि निजमनसि इत्यमुना प्रकारेणाचिन्तयं विचारितवान् । इति किम् । यदहमत्र जगति मम मण्डले. परजनपदे वा वासिनः कस्यचिदसाधारणाचारवत्तया सकलमहीमण्डलाखण्डविख्यातिभाजः महानुभावस्य साधो, इमं पद्मसुन्दरसंबन्धिनमखिलागमं सर्वशास्त्रं प्रदास्यामि । उत्प्रेक्ष्यते-दिनान्तस्य संध्यासमयस्य पितृसूकालस्य खधा आहुतिविशेषः अशनं भोजनं यस्य स रुधाशनस्तस्य अम्बुजानना पद्मवदना । सरखती देवतेत्यर्थः । 'दिनान्तसंध्यासमयस्य देवता' इति नैषधे। तस्याः कोशं भाण्डागारपुस्तकमिव । श्रूयते हि-नवव्याकरणं चिकीर्षता हैमाचार्येण सिद्धराजजयसिंहदेवजनाः खकीयश्राद्धाश्च काश्मीरे प्रेषिताः। ते च वाग्देवीवसतिं गत्वा ब्राह्मीं संपूज्यागुरुत्क्षेपपूर्व व्याकरणपुस्तकं याचन्ते स्म । तदैव तया साक्षाय सन्मूर्तिरेका त्वत्पार्श्वे हेमाचार्यरूपास्तीति राज्ञो वाचिककथनपूर्व व्याकरणपुस्तकानि समर्पितानि । अन्येषां पूजामार्गणादिविधिना प्रातः पुस्तकं दृश्यते न वाग्देवी । ततः कादमीरे ब्राहृया भाण्डागरोऽस्तीति । तेषु सर्वाणि पुस्तकान्यपि सन्तीति ॥
ततो गुणागण्यमणीमहार्णवा न वीक्षिताः केऽपि दृशा भवादृशाः । पदे पदे स्युः किमु निर्जरार्जुनीमणीमहीजन्मनिपावनीधराः ॥१५॥