________________
१४ सर्ग: हीरसौभाग्यम् ।
हे सूरे, ततस्तत्पुस्तकप्रदानयोग्यापरपात्रानवेक्षणरक्षणकारणाद्गुणा एव गणयितुं प्र. माणीकर्तुमशक्याः गणनार्हा गण्या न गण्या अगण्या वा मण्यो रत्नानि तेषां महा. र्णवाः क्षीरनीराशयाः रत्नाकरत्वात् भवादृशाः श्रीमत्सदृशाः केऽपि परे दृशा मया लोचनेन न वीक्षिता दृष्टाः । युक्तोऽयमर्थः । हे गुरो, निर्जराणामर्जुनी सुरगवी कामधेनुः, मणी सुरमाणिक्यं चिन्तारत्नम्, महीजन्मान: सुरतरवः कल्पद्रुमाः, निपाः सुरकलशाः कामकुम्भाः, अवनीधराः सुरगिरयः मेरुपर्वताः । किमु इति प्रश्ने । पदे पदे स्थाने स्थाने किं स्युः । अपि तु न भवेयुः । निर्जरशव्दादने अर्जुन्यादयः शब्दाः योज्याः । ततः कामधेन्वादीनि नामानि भवन्ति । यथा श्रीचिन्तामणिपार्श्वनाथस्तोत्रे'गीर्वाणद्रुमकुम्भधेनुमणयस्तस्याङ्गणैरिङ्गिणः' इति ॥
इदं तदादत्तसमस्तपुस्तकं मुनीश्वरा मामनुगृह्य शिष्यवत् । यदत्र पात्रप्रतिपादनं नृणां भवाम्बुराशौ कलशीसुतीयते ॥ ९६ ॥ हे मुनीश्वराः · सूरयः, तदुत्तमपात्रत्वादिकारणात् शिष्यवन्निजविनेयमिव खभक्तमिव वा मामनुगृह्य ममोपरि अनुग्रहं प्रसादं विधाय इदं पद्मसुन्दरसत्कं श्रीमत्पुरो मया ढौकितं समस्तमपि पुस्तकं लिपीकृतशास्त्रजातमादत्त गृहीत । यतो हेतोरत्र जगति पात्रप्रतिपादनं साधुदानं नृणां भव्यजनानां भवाम्बुराशौ संसारसमुद्रे कलशीमुतीयते अगस्तमि(स्तिरि)वाचरति । भवसागरं निष्ठापयति । घटः कुम्भः कलशः त्रयोऽपि पुंस्त्रीलिङ्गे ॥
मतिं श्रुतिक्षीरधिपारदृश्वरी यतो वहन्तः स्थ तपखिशेखराः।
इमं ततोऽलंकुरुतां मरालवद्विरच्चिपुत्र्या इव वः कराम्बुजम् ।। ९७ ॥ • हे तपखिशेखराः, तपोरूपं खं खापतेयमस्त्येषामिति तपस्विनः । 'अस्य खं तपोयोगसमाधयः' इति हैम्याम् । एतावता श्रमणावतंसाः श्राम्यन्ति तपसा इति श्रमणा इति भगवद्विशेषणेन सार्थकं पूर्वोक्तं नाम । यतः कारणात् श्रुतयः शास्त्राणि ता एव क्षीरधिर्दुग्धाम्भोनिधिस्तस्य पारं दृष्टवतीति पारगामिनी मतिं बुद्धिं वहन्तो धारयन्तः • स्थ वर्तध्वे । ततोऽद्वैतबुद्धिमत्त्वहेतोरिदं पुस्तकं विरश्चिपुत्र्याः ‘दशमं ब्रह्मणः सुता' इत्युक्तत्वात् विधातुर्नन्दिन्याः सरखत्या इव वो युष्माकं कराम्बुजं पाणिपद्ममलंकरोतु । किंवत् । मरालवत् । यथा राजहंसः करतुलां रक्कत्वेन कोकनदमलंकुरुते । वि. रश्चिपुत्र्या अपि करकमले पुस्तकमास्ते । 'पुस्तकव्यग्रहस्ता च' इति स्तोत्रे ॥ इति पुस्तकोत्पत्तितत्प्रदानकथनम् ॥ इदं तदाकर्ण्य स कर्णकेसरी गिरं न्यगादीत्तमसामवावरीम् ।
अवाप्ततृप्तेरशनैरिवामुना न कृत्यमास्ते बहुधीवरीवर ॥ ९८ ॥ १. दीर्घकारान्तोऽपि मणीशब्दो नाममालायां प्रसिद्ध एव.