________________
१४ सर्गः]
हीरसौभाग्यम् ।
६७७
शली-शाकटायन-पाणिनि-अमरचन्द्रजिनेन्द्रौ इत्यष्टी व्याकरणानि । अग वा ऐन्द्र-पाणिनि-जिनेन्द्र-शाकटायन-वायने-चान्द्रं सरखतीकण्ठाभरणं बुद्धिसागरं विश्रान्तविद्याधरं च भीमासनकलापकं मुष्टिव्याकरणं शैवं गौडं नन्दिजयोत्पलं-'सारखतं सिद्धहैमं जयहैमं तथापरम् । इति व्याकरणं प्रोकं सिद्धप्राभृतसंभवम् ॥' इत्यष्टादशव्याकरणैः सह वर्तन्ते ये ते तादृशा आगमाः सिद्धान्ताः अङ्गोपाङ्गनियुक्तिचूर्णिभाष्यादयः सर्वेऽपि तत्पुस्तकान्तर्वर्तमाना ग्रन्थास्तान् साधुसुधांशोः सूरीन्द्रस्य साधवो गीतार्था नृपस्यादर्शयन् नामग्राहं दर्शयन्ति स्म । के इव । भानुमानव इव । यथा दिनकरकिरणा भावान् जगत्पदार्थसार्थान् दर्शयन्ति प्रकाशयन्ति ॥ निभाल्य निःशेषमिदं स्वचक्षुषा हृदा दधत्प्रीतिमिवेन्दिरात्मजः । बभाण भूमीघुमणिर्गणीश्वरं तृणीकृतानेकनरेन्द्रविक्रमः ॥ ९० ॥ भूमीवुमणिः क्षोणीसहस्रकिरणः पातिसाहिः। मध्यंदिनावधिविधेर्वसुधाविवखान्' इति नैषधे । गणीश्वरमनूचानचक्रिणं प्रति बभाण वदति स्म । किंभूतः । तृणीकृतः अधरितस्तिरस्कृतः तृणप्रायो गणितः अनेकेषां परोलक्षाणां नरेन्द्राणां क्षोणीपालानां विक्रमो वीर्य येन । किं कुर्वन् । हृदा हृदयेन प्रीतिं प्रमोदं स्नेहं च दधत् । क इव । इन्दिरात्मज इव । यथा कमलानन्दनो हृदा वक्षसा कृखा। 'ममासनार्धे भव मण्डनं ननु प्रिये मदुत्सङ्गविभूषणं भव । श्रमाद्भमादालपमङ्गमृष्यतां विना ममोर: कररत्नवासनम् ॥' इति नैषधे । प्रीतिं प्रीत्या खपत्नीं धत्ते। किं कृत्वा । खचक्षुषा निजनेत्रेण निःशेषं समस्तमपि तत्पुस्तकं निभाल्य विलोकयित्वा ॥ इति यतिप्रोक्तपुस्तकरहस्यावबोधः ॥ . पुराभवत्प्रीतिपदं वयस्यवद्विशारदेन्दुर्मम पद्मसुन्दरः । . न येन सेहेऽम्बुरुहामिवावली हिमर्तुना पण्डितराजगर्विताम् ॥ ९१ ॥ __ हे सूरे, पुरा पूर्व मम वयस्यवन्मित्रमिव प्रीतिपदं स्नेहभाजनं पद्मसुन्दर इति नामा विशारदेन्दुः विचक्षणचन्द्रमाः अभवद्बभूव । येन पद्मसुन्दरेण पण्डितराजस्य कस्यचिद्वाराणसीतः पठित्वा समेतस्य खगुरुणाप्यजेयतां खस्य प्रख्यापयतः पण्डितविशेषविप्रस्य पण्डितराजेत्यभिधानं प्रकटयत: गर्विता खचित्तकल्पितानल्पाहंकारित्वं न -सेहे न सोढा । वादेनि(वि)र्जित्य सभासमक्षं तद्र्व निर्वासयामासेत्यर्थः । केनेव । हिमतुनेव । यथा हेमन्तकालेन अम्बुरुहां पद्मानामावलिर्न सह्यते । हिमपातेन पद्मानि कोमलत्वादिलित्वा यान्ति ॥
जगाम स खर्गिमृगीदृशां दृशामथातिथेयीं परिणामतो विधेः । मुहुर्मयाशोचि स वातपातिताजिरप्ररूढामरसालवद्विभो ॥ ९२ ॥
हे विभो हे सूरे, अथ पश्चात्कियता कालेन स पद्मसुन्दरो विधेर्दैवस्य परिणामतो वशतः खर्गिणां खर्गजन्मनां देवानां मृगीदृशां संत्रस्तहरिणनेत्राणामङ्गनानां दृश लोचनानामातिथेयीं प्राधुणीभावं जगाम संप्राप । ततस्तस्य खर्गे गमनानन्तरं स मय