________________
काव्यमाला।
बहुत्वम् । कलमात्रिंशदन्ददेशीयाः सिन्धुरा भवेयुः । पुनः केषामिव । अवनीरुहामिव । 'रुटरहजन्मजैः' इति हैम्याम् । यथा वृक्षाणां सुमानि पुष्पाणीव भवेयुः । पुनः केषामिव । विवखतामिव । यथा मार्तण्डानां कराः किरणाः स्युः ॥ इति साहेः गुरून्प्रति शिष्यप्रश्नः ॥
नृपं प्रति व्याहृतवानिति व्रतीशिता कियन्तो मम सन्ति भूपते। . इदं मुनीन्द्राननपद्मसंभवं स भृङ्गवद्वाड्मकरन्दमापपौ ॥ ८१॥ ..
ततो व्रतीशिता सूरिनुपमकब्बरं प्रति इत्यमुना प्रकारेण व्याहृतवान् भाषते स्म । हे भूपते, मम शिष्याः कियन्तः कतिचिद्वर्तन्ते । परं संख्या नाख्यायि । यतः सन्तः उत्तमा निजगौरवं खमुखेनैव न ख्यापयन्ति । यदुक्तम्-'न सौख्यसौभाग्यकरा नृणां - गुणाः स्वयं गृहीता युवतीस्तना इव । परैर्गृहीता द्वितयं वितन्वते न तेन गृह्णाति निजं गुणं महान् ॥' इति । ततोऽनन्तरं स भूमान् इदं खमदपरिहारद्वारा शिष्यसंख्याकथनरूपं मुनीन्द्रस्य सूरेराननं मुखमेव पद्मं कमलं तस्मात्संभव उत्पत्तिर्यस्य तादृशं वाक् ' वचनमेव मकरन्दं मधु आपपौ सादरं शृणोति स्म । किंवत् । भृङ्गवत् । यथा भ्रमरकः कमलोद्भवं मकरन्दमापिबति । 'सुरासुरनराकारमधुंपापीतपत्कजः' इति सारखतव्याकरणप्रान्ते आपीत इति प्रयोगो दृश्यते ॥
जगाद गाजी गणपुंगवं पुनः पुरा मयेति श्रुतिगोचरीकृतम् । विलोचनानामिव भोगिनां विभोः सहस्रयुग्मं शमिनां समस्ति वः।।८२॥
मुद्गलजनपदप्रसिद्धं महत्त्वख्यापकं यवनज्ञातेरभिधानं गाजीति । स गाजी अकब्बर• साहिः गणपुंगवं तपागच्छवृषभं मुख्यं वा प्रति जगाद गदति. स्म । हे व्रतीश्वराः, पुरा पूर्व मया जनवार्तया इति श्रुत्योः श्रवणयोर्गोचरीकृतं विषये विहितमास्ते वर्तते । इति किम् । वो युष्माकं शमिनां शिष्यीभूतानां साधूनां सहस्रस्य युग्मं युगलं द्विसहस्री। सम्यक् विद्यते इति समस्ति । केषामिव । विलोचनानामिव । यथा भोगिनां भुजंगमानां विभोः खामिनः शेषनागराजस्य नेत्राणां नयनानां सहस्रद्वयी आस्ते । 'शेषो नागाधिपोऽनन्तो द्विसहस्राक्ष आलुकः' इति हैम्याम् । सहस्रफणामण्डलैधरणीधारकत्वात् सहसफणानां सहस्रनेत्रद्वयभावात् ॥ इति साहिना खयमेवो कसूरिशिष्यसंख्या ॥ ततः क्षितीन्द्रः"":..
""॥ ८३॥ ततः खयं सूरिशिष्यकथनानन्तरं क्षितीन्द्रः साहिः व्रतीश्वरं सूरिं प्रति समीपं भगवत्संनिधानं भजन्ति इति तत्समयसूरिसमीपस्थायुकानां व्रतिनां साधूनामभिधा नामानि पृच्छति स्म । ततस्तस्य नृपस्य पुरोऽने परस्परमन्योन्यं तद्विदो व्रतिनामज्ञास्त एव तिनो गीतार्था एव ताः पण्डितनामाभिधा अभिधानानि अवदन्कथयति स्म । के
..................।