________________
१४. सर्गः] हीरसौभाग्यम् ।
६७५ षामिव । महामणीनामिव । यथा तद्विदो महामणीगुणवेत्तारः परीक्षका महामणीमभिधा . वनमरकतवैडूर्यपद्मरागादिनामानि कथयति ॥ इति यतिना परस्पराभिधाननिवेदनम् ॥
गृहादथानायितमङ्गजन्मना स खानखानेन च मुक्तमग्रतः।। महीमरुत्त्वान्प्रमदादिवोपदां मुनीशितुर्कीकयति स पुस्तकम् ॥ ८४ ॥
अथ गुरोः शिष्यानां नामावधारणानन्तरं महीमरुत्वान् भूमीन्द्रः । 'पृतनाषाडुप्रधन्वा मरुत्वान्मघवा' इति हैम्याम् । प्रमदादानन्दात् उपदां प्राभृतमिव मुनीशितुः सूरेः पुरोऽग्रे पुस्तकं ढोकयति स्म । किंभूतं पुस्तकम् । अङ्गजन्मना शेखूजीनाम्ना वृद्धपुत्रेण गृहात्वभवनमध्यादानायितं लोके 'अणाव्यु' इति प्रसिद्धं च पुनः खानखानेन मीयांखाननाम्ना साहिसामन्तेन साहेराप्तेन ततः संग्रामे गूर्जरपातिसाहिविजयविधान• समये श्रीमदकब्बरपातिसाहिना खयं खानखान इति दत्तबिरुदेन अग्रतो नृपपुरस्तात् आनीय मुक्कं साहिप्रतिशिष्टशेखूजीसूनुना मन्दिरमञ्जूषाभ्यो निष्काश्य मीयांखानस्य हस्ते प्रदत्तं तेन च नृपाने पुञ्जीकृतम् ॥
ततस्तदुन्मुद्य पुरो धराविधोरवाचि वाचंयमपुंगवैर्गुरोः। रहस्यमेतस्य पुनयंगादि तैरमुष्य सख्युः सखिवत्स्वचेतसः ॥ ८९ ॥ तत आनयनानन्तरं प्रभोः सूरेः वाचंयमपुंगवैर्यतिकुअरैः पण्डिताखण्डलैः तत्पुस्तकमुन्मुद्य समस्ताः पुस्तिकाश्छोढयित्वा धराविधोर्मेदिनीन्दोः पुरोऽग्रे अवाचि वाच्यते स्म । पुनस्तैगीतायैरेतस्य साहेः पुरोऽमुष्य पुस्तकस्य मध्ये लिखितस्य शास्त्रस्य रहस्यम् इदं पुस्तकमेतनाम शास्त्रमत्र चैतद्वाच्यमित्यादि हार्द न्यगादि कथितम् । किंवत्। सखिवत् । यथा सखिभिर्मित्रैः सख्युः स्वकीयनिरन्तरमनसः सख्युः पुनः खचेतसो निजहृद.यस्य रहस्यं गुह्यं हार्द निगद्यते प्रोच्यते ॥
उदीतमङ्गैरिह रुद्रविग्रहैरिवास्तपुष्पध्वजकालकेलिभिः । पुनस्तमस्तोमभिदाविदांवरैः परैरुपाङ्गैरिव पद्मिनीवरैः ॥ ८६ ॥ इह पुस्तकंगञ्जकमध्ये रुद्रा एकादश तेषां विग्रहैरङ्गैरिव एकादशसंख्याकैः आचाराङ्ग-सूत्रकृदङ्ग-स्थानाङ्ग-समवायाङ्ग-विवाहप्रज्ञप्ती-ज्ञाताधर्मकथा-अन्तकृद्दशान्तउपासकदशाङ्ग-अणुत्तरोपपातिकादशाङ्ग-प्रश्नव्याकरणाङ्ग-विपाकश्रुताङ्गलक्षणैरङ्गैरुदीतं प्रादुर्भूतम् । किं लक्षणैः अझैः रुद्रविग्रहैश्च । अस्तः क्षिप्तो विनाशितः पुष्पध्वज: कंदर्पस्तथा कालः कलिकालो दैत्यविशेषस्तयोः केलिविलासो यैः। 'उदीतमातङ्कितवानशङ्कत' इति नैषधे । पुनरिह पुस्तके पद्मिनीवरैनलिनीनाथर्भास्करैरिव परेरङ्गेभ्योऽन्यदशभिः उपपत्तिका-राजप्रश्नीय-जीवाभिगमप्रज्ञापना-जम्बूद्वीपप्रज्ञप्तिका-चन्द्रप्रज्ञप्तिका-सूर्यप्रज्ञप्तिका-निरयावलिका-कल्पिका-कल्पावतंसिका-पुष्पिता-पुष्पचूलिका-वृष्णिदशाइति द्वादशसंख्याकैरानामेव वाच्यसूचकैरुपाजैरुदीये । किंभूतैः उपाङ्गैः सूर्यैश्च ।