SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ ६७२ काव्यमाला । यथा सुधाब्धेरपरो न वारिधिन सिद्धसिन्धोरपरा तरङ्गिणी । न पादपः कश्चन कल्पपादपात्परो नृपः कोऽपि न चक्रवर्तिनः ॥७४॥ न धेनुरन्या सुरभेः सुधाभुजां पदं न चान्यत्परमेष्ठिनः पदात् । परो न धर्मः करुणाविधेर्यथा तथास्ति कश्चिन्न वशी विभोः परः ॥७॥ हे शेख, तथा तेन प्रकारेण विभोरस्मात्सूरेः परोऽन्यः कश्चिद्वशी जितेन्द्रियमनाः कथनकरणयोः सदृक्षो निजागीकृतप्रतिज्ञानिर्वाहको नास्त्येव । तथा कथम्। यथा सुधा ब्धेर्यस्मिन् पीयूषप्रमुखचतुर्दशरत्नान्युत्पाद्यन्ते तस्मारक्षीरसमुद्रादपरः कः श्लाव्यो वारिधिरस्ति । न कश्चिदपि । यथा सिद्धसिन्धोर्गङ्गाया अपरा इतरा जगत्यां चित्रकारिका त्रैलोक्येऽपि त्रिभिः प्रवाहैः वाहिनी निर्मलजला च तरङ्गिणी नास्ति । यथा कल्पपाद. पात्सुरतरोः परः कश्चन कामदायकः पादपो नास्ति । पुनर्वथा चक्रवर्तिनः षट्खण्डपृ. थिवीपतिरन्यः कश्चिन्नृपो नास्ति । पुनर्यथा सुधाभुजां निर्जराणां सुरभेः कामधेनोरंपरा कामदुघा सकलकामप्रदा धेनुर्न विद्यते। पुनर्यथा परमेष्टिनो जगन्नाथस्य पदात्पदव्या अन्यत् अपरं पदं न वर्तते। यत्र त्रैलोक्यैश्वर्यम्, यत्र च शिबिकावाहकाश्चतुःषष्टिः सुरासुरेन्द्राश्चतुस्त्रिंशदतिशयाष्टमहाप्रातिहार्यादिलक्ष्मीस्तत्पदादपरं किमपि पत् । अपि तु न । अथ वा परमेष्ठिनः स्थानान्मोक्षादपरं पदमनन्तसुखानन्दज्ञानात्मक परमपदमित्युच्यमानं निवर्तते । पुनर्यथा करुणाविधेर्दयापालनात्परो धर्मों नास्ति । यदुक्तम्-'नास्ति धर्मो दयापरः' इति ॥ युग्मम् ॥ श्रवःपथातिथ्यमनायि यादृशो वशी दृशा दृश्यत एव तादृशः। .. इदंगुणौघान्गणयञ्जगद्गिरामगोचरान्कि स्थविरोऽभवद्विधिः ॥ ७६ ॥ हे शेख, यादृशो यादृकप्रकारो मत्स्यदस्यैः सम्यक् वर्ण्यमानः असौ वशी पञ्चेन्द्रियाणि मनश्च वशे स्वाभानप्रचाराणि सन्त्यस्येति योगीन्द्रः श्रवःपथस्य श्रवणमार्गस्य आतिथ्यमातिथेयीं प्राघुणतां वा अनायि मया नीतः। श्रुत इत्यर्थः । तादृशस्तादग्गुणप्र. कार एव दृशा लोचनेन दृश्यते विलोक्यते । हे अवलफैज शेख, जगतां विश्वजनानां गिरां वाचामगोचरान् अविषयान् सुरासुरनरैरपि संस्तोतुमशक्यान् कथयितुं वा इदं. गुणौघान् अस्य सूरेर्गुणगणान् गणयन् संख्यां प्रापयन् । उत्प्रेक्ष्यते-विधिविधाता स्थविरो वृद्धः किमभवत्संजात इव तन्नामापि ॥ ददाति धाता गिरिशश्च शक्तिभृच्चतुर्मुखी पञ्चमुखीं च षण्मुखीम् । भुजंगराजो द्विसहस्रजिह्वतां बिभर्ति संस्तोतुमिवोत्सुकीभवन् ॥ ७७ ।। हे शेख, यं सूरिराजं संस्तोतुं वर्णयितुम् । उत्प्रेक्ष्यते-उत्सुकीभवन्नुत्कण्ठतां धारयन् सन् धाता जगत्कर्ता चतुणो मुखानां समाहारश्चतुर्मुखीमिव दधाति धत्ते । पुनर्गिरीश: शंकरः पञ्चमुखी पञ्चवक्राणीव दधाति बिभर्ति । पुनः शक्ति भत्खामि कार्तिक: पग्मुखी
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy