________________
१४ सर्गः] हीरसौभाग्यम् । हंसायितुं मोहादकः पर्यथेच्छति। मन्दधोस्तद्वदिच्छामि कविवृन्दारकायितुम् ॥' इति । स्तुवति स्म । किं कृत्वा । शेखम् अबलफैजनामानं निजसामन्तीभूतं खस्यात्मनः सवेशदेशं समीपभूभागं गच्छतीति तादृशं विधाय । स्वकीयसंनिधावाकार्येत्यर्थः ॥
मया विशेषात्परदर्शनस्पृशो गवेषिताः शेख न तेषु कश्चन । व्यलोकि वाचंयमचक्रिणः सदृङ्मगेषु कोऽप्यस्ति मृगेन्द्रसंनिभः॥ ७१॥ पराण्यन्यानि बौद्ध-नैयायिक-सांख्य-वैशेषिक-नास्तिक-जैमिनीयादीनि दर्शनानि स्पृशन्त्यनुभवन्त्याद्रियन्ते इति परदर्शनस्पृशः परपाक्षिका मचा विशेषात् खप्रागल्भ्यप्रकल्पितानल्पप्रश्ननिर्वाहकरणाप्रावीण्यप्रगुणीभवद्भरितममन्दाक्षविलक्षीभवनपरिज्ञानाद्गवे. षिता दृष्टाः परं तेषु तत्तद्दर्शनेषु कश्चन वाचंयमचक्रिणः हीरसूरेः सदृक् तुल्यो न व्य. लोकि न निरीक्षितः । युक्तोऽयमर्थः । मृगेषु हरिणेषु मध्ये कोऽपि कश्चिदपि मृगेन्द्रस्य केसरिण: संनिभः साधारणोऽस्ति । अपि तु न कोऽपि ॥
स्ववासयोग्यां वसतिं न कुत्रचिन्निरीक्ष्यमाणैरवसादिभिर्गुणैः । स्वयंभुवाभ्यर्थ्य निवस्तुमात्मनां मणिर्मुनीनां किमकारि मन्दिरम् ॥७२॥
हे शेख, गुणैः शमदमार्जवमादेवादिभिरभ्यर्थ्य वहीं प्रार्थनां कृत्वा आत्मनां स्वेषां निवस्तुं नितरी समकालं सर्वैरेकत्र संभूय वासं विधातुं स्थातुं वयंभुवा ब्रह्मणा कर्ता पार्श्वे । उत्प्रेक्ष्यते-मुनीनां मणिः सूरिरत्नं मन्दिरं वसतिः किमकारि निर्मापितेव । गुणैः किं कुर्वाणैः । कुत्रचित्कस्मिन्नपि स्थाने स्वेषामात्मनां वासस्य निवसनस्य योग्यामुचितां वसतिं वासवेश्म नैव निरीक्ष्यमाणैरपश्यद्भिः अत एव वासादिभिरेव मेदखिभिः ॥ ' असौ मुहुमींनभुजः शनेः फलं मयानुयुक्तोऽपि न किंचिदूचिवान् ।
यतः क्वचिद्भङ्गुरसंगरो महान्भवेत्सुराणामचलोऽपि चाचलिः ॥ ७३ ॥ हे शेख, असौ हीररिर्मया चतुर्दिकचकचक्रिणा मुहुर्वारं वारं मीनभुजो मीनराशेभॊक्तः शनेः शनैश्चरस्य फलं भूपजनपदद्विपदचतुष्पदादीनां क्षमाक्षेमनिर्माणलक्ष. णमनुयुक्तोऽपि पृष्टोऽपि सन् किंचित्किमप्यंशमात्रमपि नो चिवान बभाषे । यतः का. रणान्महानुत्तमजनः क्वचित् क्वाप्येकान्ते पर्षदि वा भारसंगरो भजनशीलप्रतिज्ञः निर्मुक्ताङ्गीकारः स्यात् । 'प्रतिज्ञागूश्च संगरः' इति हैम्याम् । एतेन प्रागुक्तं यदहं ज्योतिर्निमित्तादि न वच्मि तत्परीक्षार्थमेव केवलं मया स्वमाहात्म्यसयाद्यपि दर्शयित्वा पृष्ठम्। पुनरेतेन सत्त्वमात्ममार्ग चानुसत्य शनिफलं किमपि नोचे । इदं सत्यम् । सुराणामचल: मेरुः क्वचिच्याच लिरतिशयेन चञ्चल: स्यात् , अपि तु न कदाचिदपि । न कम्पते चलनशीलश्चाचलिः । 'चलिपतिबदिसाहिभ्य दणित्त्विं च, पापतिः वावदिश्वाचलिः सासहिः इति चत्वारः प्रयोगाः' इति प्रक्रियाकोमयाम् ॥