________________
काव्यमाला।
निपीय सादरमाकर्ण्य पीत्वा च । क इव । सुधाशन इव । यथा अमृतपानकृद्देवः सुधां. शोश्चन्द्रमसः सुधां निपीयते । 'पीङ् पाने दिवादिरात्मनेपदी च ॥
द्युतामिवार्काः पयसामिवार्णवा यतः श्रुतीनां निधयः स्थ सूरयः। इदं न जानीथ ततः कथं भवेदगोचरः कश्चन सर्वविच्चिदाम् ॥१८॥ हे सूरयः, यतः कारणायूयं श्रुतीनां सर्वशास्त्राणां निधयः स्थ निधानानि वर्तध्वे । के इव । अर्का इव । कविसमयोक्तद्वादशानामपेक्षया बहुत्वम् । यथा भास्करा द्युतां का न्तीनां निधयः । पुनः क इव । अर्णवा इव । अत्रापि कविसमयानुसरणात्सप्तानामपेक्षया बाहुल्यम् । यथा समुद्राः पयसां पानीयानां निधयः सन्ति । जैनसमयानुसारेण त्व. संख्यातास्तत्रापि बहुत्वमेव । ततस्तस्मात्कारणादिदं मदुक्कं शौरेमीनराशावागमनफलम: न्यग्रहादिचारागमादिफलं वा कथं केन प्रकारेण न जानीय वित्थ । युक्तोऽयमर्थः । उत्तमर्थमर्थान्तरेण वा द्रढयति-कविः सर्व समस्तमतीतानागतवर्तमानरहोगतप्रकटभूतं विदन्ति जानन्तीति सर्वज्ञास्तेषां चिदां ज्ञानानां कश्चन पदार्थोऽगोचरः अविषयः । अज्ञेयः । अपि तु सर्वमपि सर्वज्ञज्ञानगोचर एव । तस्मात्यं समस्त खपरशास्त्राणि जानीथ एवेति सर्वज्ञज्ञानानां महत्त्वापेक्षया बहुत्वम् । अथ वा मतिश्रुतावधिमनः पर्यवकेवलाभिधानानां बहूनां ज्ञानानामप्यपेक्षया बहुत्वम् ॥
प्रवृत्त्य वातोखितरासु तत्फलं पुनः पुनः प्रश्नयति स्म भूधनः।
यदा तदा स्यादपरं न धर्मतः शशाङ्कबिम्बादमृतादिवोदगात् ॥१९॥ __ भूधनोऽकब्बरः पुनः पुनर्वारं वारं तत्फलं तस्य मीनराशिगतस्य छायासुतस्य फलं प्रश्नयति स्म शुभाशुभविनिर्माणकारणं पृष्टवान् । किं कृत्वा । इतरासु खद्वादशराशिस्थमन्दफलप्रश्नादपरासु वार्तासु किंवदन्तीषु प्रवृत्त्य प्रवृत्तिं कृत्वा मध्ये मध्ये अन्यां वार्ता विधाय। पुनर्मुहुस्खदेवानुयुनक्ति स्मेत्यर्थः । यदा यस्मिन्काले तदा स्यात् सूरिवकात् धर्मतः अपरमन्यन्नोदगात् न प्रकटीभूतम् । कस्मादिव । शशाङ्कबिम्बादिव । यथा चन्द्रमण्डलादमृतात्पीयूषादन्यन्नोद्गच्छति ॥
तदा मुदो-वलयोर्वशीवशो विधाय शेखं खसवेशदेशगम् । । स बन्दिवृन्दारकवत्प्रणीतवान्पुरोऽस्य सद्भूतगुणस्तुतिं गुरोः ॥ ७० ॥ तदा तस्मिन् समये सूरिसम्यक्परीक्षाकरणानन्तरं प्रक्रमे स उर्वीवलयस्य मेदिनीमण्डलस्य उर्वशीवशः पुरूरवाश्चक्रवर्ती । 'तमेनमुविलयोर्वशीवशः' इति नैषधे । तथा 'पुरूरवा बालऐल उर्वशीरमणश्च सः' इति हैम्याम् । अकब्बरो मुदा हर्षेण कृत्वा अस्य शेखस्य यवनजातिगुरुप्रायस्य पुरोऽग्रे गुरोः सूरीन्दोः सद्भूतानां सतां वर्णनीयानां भूतानां विद्यमानानाम् । 'भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः' इति भक्तामरस्तवे । स्तुतिवर्णनां प्रणीतवान् चकार । किंवत् । बन्दिवृन्दारकवत् । यथा मालपाठकपुंगवो गुणानां स्तुतिं प्रणयति । वृन्दारकशब्देन प्राधान्यमपि दृश्यते । यथा चम्पूकथायाम्-'सोऽहं