________________
१४ सर्गः हीरसौभाग्यम् ।
नृपो राजा विभुं सूरि परीक्षितुं गुरोः पूर्वोक्तव्रतानां परीक्षा कर्तुमीहमानो निजहृदि वाञ्छन् पुनर्व्याधुय्य इत्यग्रे वक्ष्यमाणप्रकारेगावोचत वदति। परीक्षितुं क इव । रत्नपरीक्षक इव । यथा माणिक्यपरीक्षाकारकः 'जवहरी' इति लोके प्रसिद्धः । स मणीन् परीक्षते रत्नगुणान् परीक्षयति । अल्पानल्पं वा तन्मूल्यं विधत्ते। नृपः किं कुर्वन् । इदं सूरिनिगदितव्रतखरूपं निशम्य आकर्ण्य प्रमदमानन्दं दधद्विभ्रत् । किं कृत्वा । इतरां एतस्या वार्तायाः पृथग्वर्तिनी तात्त्विकी धर्मतत्त्वसंबन्धिनीं गोष्ठी प्रणीय कृत्वा ॥
पुरेऽनयीवावनिमानुपेयिवान्य एष मीने तरणेस्तनूरुहः । स मत्सरीवापकरिष्यति प्रभो क्षितेः पतीनामुत नीवृतां किमु ॥६५॥
हे सूरे, यः कृष्णविक्रमार्कादीनां संतापकारकः एष प्रत्यक्षतया लोकैर्दुष्टाशय इत्यु'च्यमानः महादशराशौ समेतो वा तरणेर्भास्करस्य तनूरुहः पुत्रः शनैश्चरो मीने मीनराशौ उपेयिवानागतोऽस्ति । क इव । अवनिमानिव । यथा अनयी अन्यायकारको भूपतिः पुरे नगरे, उपैति । हे प्रभो, स शनिर्मत्सरीव अमर्षयुक्त इव पिशुन इव वा । 'पिशुन: सूचको नीचो द्विजिह्वो मत्सरी खलः' इति हैम्याम् । किमु क्षितेः पतीनां राज्ञामुताथ वा किमु निवृतां देशानाम्, देशग्रहणेन देशवासिजनानां दुर्भिक्षडमरमरकपरचक्रादिकोपद्रवकरणादिना अपकरिष्यति दुष्टं विधास्यति । 'वित किं किमूत च' इति हैम्याम् ॥
गुरुजंगौ ज्योतिषिका विदन्त्यदो न धार्मिकादन्यदवैमि वाङ्मयात् । यतः प्रवृत्तिर्गृहमेधिनामियं न मुक्तिमार्गे पथिकीबभूवुषाम् ॥ ११ ॥
गुरुहीरसूरिर्जगौ पातिसाहिं प्रत्युवाच । अद एतत् श्रीमत्पृच्छ्यमानं ग्रहादीनां चा. • रशुभाशुभपरिज्ञानं ज्योतिषिका ज्योतिःशास्त्रविदो विदन्ति जानन्ति । पुनरहं धार्मिकाद्धर्मसंबन्धिनो वाङ्मयात् शास्त्रादन्यत्परं वाङ्मयं नावैमि न वेद्मि । यतः कारणादियं ग्रहादीनां शुभाशुभपरिणतिकथनादिका प्रवृत्तिः प्रवर्तनं व्यापारः प्रकर्षेण वृत्तिराजीविका वा गृहमेधिनां गृहस्थानामास्ते । परं मुक्तिमार्गे मोक्षाध्वनि पथिकीबभूवुषां पान्थीभूतानां मोक्षमार्ग प्रवृत्तानामियं प्रवृत्तिर्न स्यात् ॥ इति परीक्षार्थ साहिप्रश्ने गुरोनिषेधवाक् ॥ निपीय स श्रोत्रपुटैः सुधाशनः सुधां सुधांशोरिव तां प्रभोगिरम् । पुनर्महीमण्डलमत्स्यलाञ्छनश्चकार वाणी वदनानुषङ्गिनीम् ॥ ६७ ॥ स साहिः पुनर्महीमण्डलस्य क्षोणीचक्रस्य मत्स्यलाग्छनः अतिशायिरूपवत्त्वेन रतिपतिः । 'निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेयुषः' इति नैषधे । स साहिर्वाणीं वाचं वदनानुषङ्गिनी मुखपद्मसंगतां चकार कृतवान् । उवाचेत्यर्थः । किं कृत्वा । श्रोत्रपुटैः खकर्णरूपपत्रपुटकैः प्रभोः सूरेः ताम् अहं धर्मशास्त्रादन्यन्न वेग्रीति लक्षणां गिरं वाणी