________________
काव्यमाला।
भोग इव। यथा सप्तद्वीपाया वसुंधराया आभोगो विस्तारः । 'प्रपश्चाभोगविस्तारः' इति हैम्याम्। सप्त लवण-क्षीर-दधि-त-सुरा-इक्षु-वारिनाम्नः अम्भसा प्रभून समुद्रान् । 'यादःस्रोतोवानंदीशः सरस्वान्' इति हैम्याम् । धत्ते । पुन: क इव । शिखीव । यथा वहिः सप्त शिखा ज्वाला धत्ते । “विभावसुः सप्तोदर्चिः खाहापाही' इति हैम्याम् । पुनः क इव । घुमणिरिव । यथा नभोरनं सहस्ररश्मिः सप्त हयान् खरथे सप्ताश्वान् धारयति ॥
पुरातनैराचरितानि सूरिभिर्यथा तथा धर्तुमहं न तान्यलम् । मतङ्गजप्रक्षरधारणक्षमा मतङ्गजा एव न यत्तुरङ्गमाः ॥ १२ ॥ हे नृपते, अहं खल्पमनःकायबलाकलितकलिकालोत्पन्नजनः तथा तेन प्रकारेण तानि सप्त व्रतानि ध धारयितुं नालं न समर्थोऽस्मि । तथा कथम् । यथा येन प्रकारेण संपूर्णाद्वैतमनोवाकायबलशालिभिः सिद्धिसंप्राप्त्युचितं चारुसंहननैः सुषमासमयसंप्राप्ता. वतारैः पुरातनैः प्राचीनैः सूरिभिराचार्यैरुपलक्षणादुपाध्यायगणाश्चच्छेदकसाधुभिरप्याचारितानि सम्यक्पालितानि यद्यस्मात्कारणान्मतङ्गजानां संनाह्यानां समरोचितानां दन्तिनां प्रक्षराणां 'पाखर' इति लोकप्रसिद्धानां धारणे उद्वहने. परिधाने वा मतङ्गजा एव क्षमाः समर्थाः स्युः न पुनस्तुरङ्गमाः खयोग्यप्रक्षरधारणे समर्था अप्यश्वाः किं गजानामतिशायिभारदुर्वहां प्रक्षरां धारयन्ति । अपि तु न तथा। अहमपि पूर्वाचार्यानुष्टितोत्कृष्टानुष्ठानं विधातुं समर्थोऽपि देशकालखमनोवपुर्वलानुरूपमनुष्ठानमाचराभिलो. कोच्या खरग्रहणं निन्द्यम् । किं च तस्य मूलत एव प्रक्षरव न भाति तद्ब्रहणमयुक्तमेव यानेषु रत्नत्वात्प्रक्षरधारित्वाच्च अश्वाभिधानं न्याय्यमेव ॥ . .
श्रुतोक्तयावद्रतपालने यदाप्यलं न किंचित्तु तथापिं शक्तितः । विधिं बिभर्येष तरेन्न तारको नदीमपीशस्तरणेऽम्बुधेर्न यः ॥ ६३ ॥ हे नरेन्द्र, श्रुते शास्त्रे उक्तः प्ररूपितः कथितः यावान् समग्रः यावत्परिमाणमस्येति यावान् । 'यावज्जनरअनवती' इति नैषधे। 'समग्रलोकाना रजने प्रीणने व्रतमस्यास्तीति' इति तद्वृत्तिः । विधिः कर्तव्यार्थोपदेश आचारो वा तस्य पालने आचरणे यदापि यद्यपि नालं नाहं प्रभुः, तथापि तर्हि एषां शक्तितः स्वसामर्थ्यानुसारात् यादृशी व्रतपालनश किस्तादृशमित्यर्थः । तु पुनः किंचित्किमपि अल्पमात्रं देशकालानुरूपमाचारमाचरामि पालयामि । युक्तोऽयमर्थः । यस्तारकः खकलया जलातिकामकः अम्बुधेः समुद्र तरणे भुजाभ्यामुत्तरणे नेशः प्रभुर्न स्यात् स तारकः नदी समुद्रापेक्षया खल्पपरिमित सलिलां सरितं किं न तरेनोलक्येत् परपारं न यायात् । अपि तु तरेदेव ॥ इति खस्य व्रतपालनसामर्थ्यमुक्तम् ॥
इदं निशम्य प्रमदं दधन्नृपः प्रणीय गोष्ठीमितरां च तात्त्विकीम् । परीक्षितुं रत्नपरीक्षको मणीनिवेहमानः पुनरित्यवोचत ॥ ६४ ॥