________________
काव्यमाला।
गमिष्यति लप्स्यते इत्येवंशीलः । अथ वा क्षमाधरो जनकेन निजनिजराज्ये स्था. पितः । पुनर्महान्तं सार्वभौमतादिलक्षणमुदयमाधिपत्यं प्राप्स्यते इत्येवंशीलः । तारश: कः । अनीतिष्वन्यायेषु अनुरागवान् भवेत् । उद्घाभिलाषी सर्वोऽपि न्यायेष्वेवानुरज्यते । यदुक्तम्-'न निमित्तद्विषां क्षेमं नायुर्वैद्यकविद्विषान् । न श्रीनीतिद्विषामेतत्रयं धर्मद्विषां नहि ॥' इति ॥
यतः स शूरः सुदृशां ध्रुवं धनुः कटाक्षबाणान्कबरीकृपाणभृत् । .. नितम्बचक्रं भुजपाशमुत्कटं पुनर्वहन्येन जितः स्मरप्रभुः ॥ ४६ ॥ .' हे मुद्गलेन्द्र, स एव पुमान् शूरः सुभटः । कथ्यते इति शेषः । येन पुंसा स्मर एव प्रभुः त्रिजगज्जेतृत्वात्समर्थो राजा इन्द्रनागेन्द्रनरेन्द्राणामपि खसेवकीकरणादाजा जितो. वशीकृतो हतो वा । किं कुर्वन् । सुदृशां चारुलोचनानां ध्रुवमेव धनु: कोदण्डम् , पुनः कटाक्षानपाङ्गदर्शनान्यक्षिविकूणितानि एव बाणानाराचान् , पुनर्नितम्बमारोहं स्त्रीकटीप. श्वात्प्रदेशम् । येन कृत्वा नितम्बिनीत्यभिधानेन प्रसिद्धा । तदेव चक्रं रथाङ्गायुधम् । पुनरुत्कटं केनापि छेत्तुमशक्यं भुजौ वाहू एव पाशं द्विषद्वन्धनार्थ वज्ररज्जुमयग्रन्थि वहन् धारयन् । किंभूतः । कबरी वेणीमेव कृपाणं चन्द्रहास बिभतीति भृत् । प्रभुः सकलसुरासुरोरगनरनायकनिर्जयेन सामर्थ्यवानिति साभिप्रायं प्रभुरिति पदम् ॥
स भद्रवांस्त्रैणकुचाचलान्तिकारूढरोमावलिसालगह्वरे। . न दस्युवद्यस्य मनोभुवा शमश्रियो हियन्ते शिवमार्गगामिनः ॥ ४७॥ हे साहे, स नरो भद्रवान् कुशली ।स कः । शिवे निरुपद्रवे मार्गे पथि मोक्षमार्गे वा गच्छतीत्येवंशीलस्य यस्य महात्मनो दस्युवत्तस्करेणेव । 'दस्युस्तस्करविद्विषोः' इत्यनेकार्थः । मनोभुवा मदनेन शमश्रियः प्रशमविभवा न हियन्ते नाच्छिद्य गृह्यन्ते । कस्मिन्विषये । स्त्रैणस्य स्त्रीसमूहस्य कुचाः प्रोत्तुङ्गपीनपयोधरास्त एवाचलाः पर्वतास्तेषामन्तिके समीपे प्ररूढा उद्गताः या रोमावल्यो लोमलेखास्ता एव साला विविधविटपवृ. क्षास्तेषां गहरे घननिकुञ्ज तस्करश्वापदादिभयंकरकानने ॥
यशस्त्रियामादयिते कलङ्कति द्विपेन्द्रति क्षीरधिसूनुवीरुधि । शमारविन्दे तुहिनोदवृन्दति व्रताम्बुवाहेष्वपि गन्धवाहति ॥ १८ ॥ निदाघति ब्रीडवहा पयःप्लवे महत्त्वगोत्रे च सहस्रनेत्रति । गुणद्रुमद्रोणिषु मन्त्रजिह्वति क्षितीश शीलं पुरुषेण खण्डितम् ॥ ४९॥
हे क्षितीश भूपते, पुरुषेण उपलक्षणाद्विशेषेण स्त्रिया वा शीलं ब्रह्मचर्य खदारसंतोपलक्षणं परपुरुषत्यागलक्षणं यावजीवनियमपालन विधं वा खण्डितं त्यक्तं भग्नं सत् । तस्येति शेषः । यशः कीर्तिरेव त्रियामादयित: शारदीनचन्द्रस्तस्मिन्कलङ्कति लाञ्छनमिवाचरति । सकलङ्कः खयशो मलिनीकरोति । पुनः क्षीरधेः क्षीरसमुद्रस्य सूनुः